सामग्री पर जाएँ

पृष्ठम्:Ashwalayana gruhya sutra bhashyam.pdf/२७५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२३६ आश्वलायनगृह्यसूत्रभाष्यम् आहवनीयश्चेदग्निः प्रथममेनं प्राप्नुयात् अनेन निमित्तेन स्वर्गलोक : एनं प्रापदिति विद्यात् । रात्स्यत्यसावमुत्रैव ऋद्धि प्राप्स्यत्यसावाहिताग्नि- रमुष्मिन् स्वर्गे लोके । एवं पुत्रः अस्मिन् लोके ॥ २ ॥ गार्हपत्यश्चेत् पूर्वं प्राप्नुयादन्तरिक्षलोक एनं प्रापदिति विद्याद्रात्स्यत्यसावमुत्त्रैवमयमस्मिन्निति पुत्रः ॥ ३ ॥ गार्हपत्यश्चेत् पूर्ववत् ।। ३ ॥ दक्षिणाग्निश्चेत् पूर्व प्राप्नुयान्मनुष्यलोक एनं प्रापदिति विद्याद्रात्स्यत्यसावमुत्त्रैवमयमस्मिन्निति पुत्रः ॥ ४॥ दक्षिणाग्निश्चेत् पूर्ववत् ।। ४ ।। युगपत्प्राप्तौ परामृद्धिं वदन्ति ॥ ५ ॥ | युगपदेनं यदाग्नयः अवाप्नुयुः यजमानं तदा परा ऋद्धिर्भवति । का पुनः परा ऋद्धिः । यस्याः परतरा नास्ति सा । तां प्राप्नुते मुच्यत इति यावत् । किमेतावत्येव तस्य मोक्षो भवति । नेति । अनभिसंधाय फलं यः कर्मसु वर्तते तस्य मोक्षो भवति । तस्यैवमग्नयो युगपत् प्रवर्तन्ते । क इममर्थं द्योतयन्ति । अनेन निमित्तेन पूर्वा प्रवृत्तिरनुमीयते । तानि निमित्तानि द्योतकानि भवन्ति । तत्र तु कर्मसमर्थसाधनसाद्गुण्यात् । पूर्वा गतिरिति । तद्वैगुण्यादुत्तरा गतिः ॥ ५ ॥ तं दह्यमानमनुमन्त्रयते ' प्रेहि प्रेहि पथिभिः पूर्व्येभिः ' (ऋ० सं० १० १४.६ ) इति समानम् । स एवंविदा दह्यमानः सहैव धूमेन स्वर्गं लोकमेतीति विज्ञायते ॥ ६ ॥ . दीप्तं यजमानशरीरमनुमन्त्रयते हि प्रेहि पथिभिरित्येवमादिभि- ऋग्भिः । याः प्रागुक्ताः (आ० श्र० ६.१०.१६ ) ता अन ज्ञायन्ते । स