२३४ आश्वलायनगृह्यसूत्रभाष्यम् पिण्ड्यौ चैके ॥ २१ ॥ एके हृदयं मन्यन्ते । एके पुनः पिण्डयाविति । अङ्गावयवा इत्येके ।। २१ ।। वृक्कापचार इत्येके ॥ २२ ॥ एके आचार्याः वृक्काभावे पिण्डचौ मन्यन्ते । अपरे पुनर्वृक्कापचार इति अपेत्यमधोभागः अधश्चारं मन्यन्ते बाह्वोरधः । तस्मात् तत्र देशाचा - रात् क्रिया ।। २२ ।। सर्वां यथाङ्गं विनिक्षिप्य चर्मणा प्रच्छाद्य ' इममग्ने चमसं माविजिह्वर:' ( ऋ० सं० १० १६. ८) इति प्रणीताप्रणयन- मनुमन्त्रयते || || २३ ॥ तामनुस्तरणीं यथाङ्गं तस्या यदङ्गं तस्मिन् निक्षिपेत् । सर्वग्रहणं यथाभूतामेवाखण्डितां यथा स्यादिति । यथाङ्गं विनिक्षिप्य चर्मणा प्रच्छा- दयति इममग्ने चमसमिति प्रणीताप्रणयनमनुमन्त्रयते । अनेनैवानुमन्त्रयते । अथ प्रणीताः कस्मिन् काले भवन्तीति । अग्निनिधानादुत्तरं प्राक् चिति- संचयनात् ।। २३ ।। सव्यं जान्वाच्य दक्षिणाग्नावाज्याहुतीर्जुहुयात् अग्नये स्वाह्य कामाय स्वाहा लोकाय स्वाहा अनुमतये स्वाहा इति । २४ । सव्यं जानु निपात्य दक्षिणाग्नौ जुहुयादाज्याहुती: अग्नय इत्ये- तैश्चतुभिर्मन्त्रैः । तत्र होमार्थमन्यं स्रुवमुत्पादयन्ति । पूर्वस्य योजितत्वात् । अपरे हुत्वाहुतीर्योजयन्ति । ये स्रुवं तदर्थमुत्पाद्यमिच्छन्ति योजयन्ति ते पूर्वम् । तस्य विहितत्वात् । एवं सति विनियोगक्रमो न बाधितो भवति ।। २४ ।।
पृष्ठम्:Ashwalayana gruhya sutra bhashyam.pdf/२७३
दिखावट