तृतीयोऽध्यायः २१७ जपतीति । तेन नियमं कुर्वन्नुत्तरत दर्शयति द्वयोर्जपोऽयं यथा स्यादिति । प्राणापानयोरिति कृत्स्नो मन्त्रः पठ्यते ॥ ५ ॥ ऋचं च समाप्यों प्राक्स्वस्तीति जपित्वा 'महि त्रीणाम् ' (ऋ० सं० १०. १८५. १ ) इत्यनुमन्त्र्य ॥ ६ ॥ 'महि वीणामवोऽस्तु' इत्यनेनाभिमन्त्यातिसृजेत् । कथम् । विवसिष्याव विवत्स्याव इति वा ॥ ६ ॥ ॥ ७ ॥ एवमतिसृष्टस्य न कुतश्चिद् भयं भवतीति विज्ञायते । किमर्थं श्रुत्याकर्षणं क्रियते । कथमन्यस्मिन्नपि काले अनेन विधिना विवसनं स्यादिति ॥ ७ ॥ 1 वयसाममनोज्ञा वाचः श्रुत्वा 'कनिऋदज्जनुषं प्रब्रुवाणः ( ऋ० सं० २. ४२. १ ) इति सूक्ते जपेत् । 'देवों वाचमजनयन्त देवाः' (ऋ० सं० ८. १००.११ ) इति च ॥ ८ ॥ वयसः पक्षिण इत्युच्यन्ते । तेषां वाचः अमनोज्ञाः श्रुत्वा एते सूक्ते जपेत् । एतां च ऋचम् । ।। ८ ।। स्तुहि श्रुतं गर्तसदं युवानम्' (ऋ० सं० २. ३३. ११ ) इति मृगस्य ॥ ६ ॥ अमनोज्ञा वाचः श्रुत्वा मृगस्य तामृचं जपेत् ॥ ६ ॥ यस्या दिशो बिभीयाद् यस्माद्वा तां दिशमुल्मुकमुभयतः प्रदीप्तं प्रत्यस्येन्मत्थं वा प्रसव्यमालोड्य
पृष्ठम्:Ashwalayana gruhya sutra bhashyam.pdf/२५६
दिखावट