सामग्री पर जाएँ

पृष्ठम्:Ashwalayana gruhya sutra bhashyam.pdf/२५३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२१४ आश्वलायनगृह्यसूत्रभाष्यम् न नक्तं स्वायात् ।। २७ ।। रात्रौ स्नानप्रतिषेधः ।। २७ ।। न नग्नः स्नायात् ॥ २८ ॥ अवाससः स्नानप्रतिषेधः ॥ २८ ॥ न नग्नः शयीत ॥ २६ ॥ न नग्नां स्त्रियमीक्षेतान्यत्र मैथुनात् ॥ ३० ॥ मैथुनादन्यत्र नग्नायाः स्त्रिया ईक्षणप्रतिषेधः ॥ ३० ॥ वर्षति न धावेत् ॥ ३१ ॥ द्रुतगमनप्रतिषेधः ॥ ३१ ॥ न वृक्षमारोहेत् ॥ ३२ ॥ वृक्षारोहणप्रतिषेधः ॥ ३२ ॥ न कूपमवरोहेत् ॥ ३३ ॥ कूपावरोहणं च न कुर्यात् ।। ३३ ।। न बाहुभ्यां नदीं तरेत् ॥ ३४ ॥ न संशयमभ्यापद्येत ॥ ३५ ॥ वर्षति न धावेदित्येवमादिप्रतिषेधो न कर्तव्यः । कस्मात् । न संशयमभ्यापद्येतेत्येतेनैव सिद्धत्वात् । न संशयमभ्यापद्येतेत्येतावत्येवोच्य- माने संशय: स्यात् । किं प्राणसंशयं नाभ्यापद्येत उतार्थसंशयमिति । एत- स्मिन् संदिह्यमानेऽयं प्रतिषेधः क्रियते । एवमादिसंशयं नाभ्यापद्येतेत्ये- तदुक्तं भवति ।। ३५ ।।