सामग्री पर जाएँ

पृष्ठम्:Ashwalayana gruhya sutra bhashyam.pdf/२५२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तृतीयोऽध्यायः २१३ सर्वपरिग्रहः । कथं ज्ञायते । यस्मात् खैलिकानामुपदेशं करोति 'यमृत्विजो बहुधा कल्पयन्ते ' (१. १३. ५ ) इत्यत्र । तस्मादिह दशभिर्होमः कर्तव्यः । अतश्च ज्ञायते यथेह दश भवन्तीति । येन ' आयुष्यमिति सूक्तेन ' ( ३. ८. २१) इत्युपदेशं करोति ॥ २३ ॥ यत्नैनं पूजयिष्यन्तो भवन्ति तत्त्रैतां रात्रि वसेत् ॥ २४ ॥ यत्र मन्यते पूजयिष्यन्ति मामेत इति तत्रैतामुपस्थितां रात्रिं वसेत् वसतिं कुर्यात् । कथं पुनरसौ पूजयितव्यः । मधुपर्केण । 'स्नातकायोपस्थि- ताय ' (१.२४ . २ ) इति वचनात् पूजयितव्यो भवति ।। २४ ।। विद्यान्ते गुरुमर्थेन निमन्त्य कृत्वानुज्ञातस्य वा स्नानम् ।। २५ ।। स्नानं कर्तव्यम् । तत्र द्वादशानां वर्षाणामन्ते विद्याग्रहणान्ते वा गुर्वर्थं करोति पश्चात् स्नानमिति । विद्याया अन्ते गुरुमर्थेन निमन्त्रयेत किमहं करवाणीति तेनोक्तमर्थमाहृतं कृत्वा स्नानं करोति । अथवानुज्ञातः स्नानं करोति । ननु च प्रागुक्तास्त्रिविधाः स्नातका भवन्तीति । तेषु द्वयोरेतत् स्नानमुपदिश्यते । कयोः । विद्यास्नातकस्य विद्याव्रतस्नातकस्य । कस्मात् तौ विद्याया अन्तं गतवन्तौ भवतः । नेतरस्य । असमाप्तविद्यत्वान्न प्राप्नोति । नेत्युच्यते । नात विद्यापरिसमाप्तौ स्नानं चोद्यते । किं तहि । अन्ते चोद्यते । तेनासावपि मध्यमुत्सृज्यान्तमध्येष्यते । तेनासावप्यन्तगतो भवति । तस्मात् विविधस्यापि स्नानं वेदान्ते भविष्यति ।। २५ ।। तस्यैतानि व्रतानि भवन्ति ।। २६ ।। I / एतानि व्रतानि भवन्ति यानि वक्ष्यामः । तानि व्रतानि यावज्जीषं स्नातकस्य ।। २६ ॥