२१२ आश्वलायनगृह्यसूत्रभाष्यम् [ ' स्मृतं च मे अस्मृतं च मे तन्म उभयव्रतम् ।] स्मृतं निन्दा च विद्या च श्रद्धा प्रज्ञा च पञ्चमी । इष्टं दत्तमधीतं च कृतं सत्यं श्रुतं व्रतम् ॥ 1. ' यदग्नेः सेन्द्रस्य सप्रजापतिकस्य सॠषिकस्य सऋषि- राजन्यस्य सपितृकस्य सपितृराजन्यस्य समनुष्यस्य समनुष्य- राजन्यस्य साकाशस्य सातीकाशस्य सानूकाशस्य सप्रतीकाशस्य सदेवमनुष्कस्य सगन्धर्वाप्सरस्कस्य सहारण्यैश्च पशुभिर्ग्राम्यैश्च यन्म आत्मन आत्मनि व्रतं तन्मे सर्वव्रतमिदमहमग्ने सर्वव्रतो भवामि स्वाहेति ॥ २२ ॥ स्मृतं च म इत्यादिना सर्वव्रतो भवामि स्वाहेत्येवमन्तेन मन्त्रेण समिधमादधाति ।। २२ ।। 'ममाग्ने वर्चः' (ऋ० सं० १० १२८. १ ) इति प्रत्यूचं समिधोऽभ्यादध्यात् ॥ २३ ॥ ८ ममाग्ने वर्च इत्यर्वाञ्चमिन्द्रमित्येका । प्रत्यृचं समिधोऽभ्यादध्यात् । तत्रैतत् सूक्तं नवर्चमनुक्रमितम् । दशमीमपि केचित् पठन्ति । किं तया होमः कर्तव्यो न कर्तव्य इति तत्र संशयः । एतस्य समास्नायस्य ' इति (आ० श्रौ० १. १. १) वचनान्न प्राप्नोति । नेत्युच्यते । विताने एतस्य समाम्नाय - स्येति परिग्रहः । कथं गम्यते । तत्र खिलानां कृत्स्नश: पाठात् । इह तु 1 This mantra is not written in MSS. But from the bhāṣya it appears to be in the sutra. So it is in practice as well as in all prayoga texts. Nārāyaṇa also notes that the mantra is to be read in this way.
पृष्ठम्:Ashwalayana gruhya sutra bhashyam.pdf/२५१
दिखावट