सामग्री पर जाएँ

पृष्ठम्:Ashwalayana gruhya sutra bhashyam.pdf/२५०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तृतीयोऽध्यायः २११ 'अनार्तास्यनार्तोऽहं भूयासम् ' इति स्रजमपि बध्नीत । न मालोक्ताम् । मालेति चेद् ब्रूयुः स्रगित्यभिधापयीत ॥ १८ ॥ मालेति चेद् ब्रूयुः या तु स्रङमालेत्युच्यते तां नाबन्धीत । स्रगिति च तामभिधापयीत । स्रगिति ब्रूध्वमिति । पश्चादपि निबध्नीत स्रगित्य- भिधापितां सतीम् ॥ १८ ॥ g 'देवानां प्रतिष्ठे स्थः सर्वतो मा पातम् ' इत्युपानहावास्थाय दिवश्छद्मासि' इति छत्वमादत्ते ॥ १६ ॥ 'देवानां प्रतिष्ठे स्थः ' इत्यनेन मन्त्रेणोपानहावातिष्ठति । ' दिवश्छद्मासि' इति छत्रमादत्ते गृह्णाति ॥ १६ ॥ वेणुरसि वानस्पत्योऽसि सर्वतो मा पाहि ' इति वैणवं दण्डम् ॥ २० ॥ ' वेणुरसि' इत्यनेन मन्त्रेण वैणवं दण्डं गृह्णाति ।। २० ।। आयुष्यम् ' (ऋ० खि० १० १२८. २ ) इति सूक्तेन मणि कण्ठे प्रतिमुच्योष्णोषं कृत्वा तिष्ठन् समिधमादध्यात् ' ॥ २१ ॥ i आयुष्यम् ' इति सूक्तेन मणि कण्ठे प्रमुञ्चति आबध्नाति । सूक्त- ग्रहणं कथं कृत्स्नेन सूक्तेन मणेराबन्धनं स्यादिति । प्रतिमुच्योष्णीषं करोति । अहतेन वाससा शिरो वेष्टयति । कृत्वा तिष्ठन् समिधमादधाति । यासौ समिदाहृता तां तिष्ठन् समिधमादधाति ।। २१ ॥ I According to the printed editions here ends the kandikā 8 and the rest of the sutra-s form kandika 9. But see note at the end of the chapter.