सामग्री पर जाएँ

पृष्ठम्:Ashwalayana gruhya sutra bhashyam.pdf/२४८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तृतीयोऽध्यायः J २०६ तत्र कर्मण इयमानुपूर्वीति । तत्र कर्मग्रहणं किमर्थम् । तदेव कर्म कथं स्यादिति । किं सिद्धं भवति । ' आप्लुत्य वाग्यतः ( १. १८.६ ) इत्येवमादि मा भूदिति । इदं तु समावर्तनं कर्म स्वयंकर्तृकं भवति ॥ १० ॥ आत्मनि मन्त्रान् संनमयेत् ॥ ११ ॥ 1 1 तत्र ये मन्त्रा अन ते आत्माभिवादिनो निवेशयितव्या इति ब्रवीति । यद्येवमर्थमारभ्यते नैवारब्धव्यम् । किं कारणम् । परिभाषासिद्धत्वा- स्यार्थस्य । वैकृतत्वाच्चास्य कर्मण ऊहो भवति । तस्माच्छक्यमनारब्धुम् । आरभ्यते प्रयोजनार्थम् । किं प्रयोजनम् । ऋगूहप्राप्त्यर्थम् । ऋक्षु कथमूहः प्रसज्येत इति । तस्मादारब्धव्यम् । के पुनस्ते मन्त्राः ये आत्माभिवादिनः कर्तव्याः । तद्यथा-- ' ओषधे त्रायस्व मां स्वधिते मा मा हिंसी: 1,1 'वपतेदं म आयुष्मान्', 'तेन म आयुषे वपामि', 'मुखं मा म आयुः प्रमोषी : ' इति । समावर्तनकर्मण्येते मन्त्रा अनेन प्रयोगेण प्रयोक्तव्याः ।। 11 99 11 एकक्लीतकेन शीतोष्णाभिरद्भिः स्नात्वा ' युवं वस्त्राणि पोवसा वसाथे ' ( ऋ० सं० १. १५२. १ ) इत्यहते वाससी आच्छाद्य ' अश्मनस्तेजोऽसि चक्षुर्मे पाहि ' पाहि इति चक्षुषी आञ्जयीत ॥ १२ ॥ एकक्लीतकेन उन्मर्दयति । तदुन्मर्दनमेकक्लीतकं भवति । एक- क्लीतकमिति किमुच्यते । करञ्जक्याः फलानां यतैकं क्लीतकं बीजं भवति । तदुन्मर्दनं भवति । तेनोन्मर्द्य शीतोष्णाभिरद्भि: स्नाति । स्नात्वा ' युवं वस्त्राणि ' इत्यनयच अहते वाससी आच्छादयति । आच्छाद्य 'अश्मनस्ते- जोऽसि ' इत्यनेन मन्त्रेण चक्षुषी आञ्जयीत । सव्यं प्रथममित्युपदेशः । 1 1 Cf. I. 17. 8-16. 14