सामग्री पर जाएँ

पृष्ठम्:Ashwalayana gruhya sutra bhashyam.pdf/२४६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तृतीयोऽध्यायः २०७ उपकल्पयीतेति यदि नोच्यते अपूर्वमप्येषा चोदना न स्यात् । भवतु को दोषः । ये उत्तरत्र विशेषास्ते तत्रैवावतिष्ठेरन् । न चायमिष्टः । तत्राहते वाससी आचार्यस्य प्राप्नुतः । कस्मात् । समावर्तमानस्य विशेषोपदेशात् । । । तेन कथं सापूर्वा चोदना स्यात् इदं च वचनमानुमानिकं स्यादित्येतदर्थ- मेतानीत्युच्यते । उपकल्पयीतेति यदि नोच्येत एतेषां द्रव्याणामुपकल्पनं न स्यात् । नेत्युच्यते । उत्तरत्नोपदेशाद् भविष्यति । तद्यथा---' आचार्योऽहतेन वाससा त्रिः प्रदक्षिणं शिरः समुखं वेष्टयित्वा' ( आ. श्रौ. ८. १४. १० ) इत्यत्नासत्यामपि चोदनायामुपकल्पयीतेत्यर्थादुपकल्पनं भवति । तद्वदिहापि भविष्यति । नातोपकल्पनं प्राधान्येन चोद्यते । 'आत्मने चाचार्याय च ( ३. ८. २ ) इति वक्ष्यति । तत्र न ज्ञायते कानि द्रव्याण्यात्मने चाचार्याय च भवन्तीति । तत्र कथमेतेषां द्रव्याणां ग्रहणं स्यादित्यतो वचन- मारभ्यते ।। १ ।। मणि कुण्डले वस्त्रयुगं छत्रमुपानद्युगं दण्डं त्रजमुन्म- र्दनमनुलेपनमाञ्जनमुष्णीषमित्यात्मने चाचार्याय च ॥ २ ॥ मणि कुण्डले इत्येवमाद्यूष्णीषान्तानि आत्मने चाचार्याय चोपकल्पयते । तत्र मणी कुण्डले इत्येवं केचित् पठन्ति । मणिकुण्डले इत्येवमपरे । ये मणिकुण्डले इति पठन्ति तेषां मणिग्रहणं कुण्डलविशे- षणार्थम् । तेन चाचार्यस्य मणिर्न प्राप्नोति । समावर्तमानस्य दर्शनाद् भविष्यति । तस्मान्नायं पाठः । मणि कुण्डले इत्ययमेव पाठः । किमेवं भविष्यति । उभयोरपि मणिः सिद्धो भवति । अविशिष्टयोः कुण्डलयोः प्राप्तिर्भविष्यति । दर्शनाद् विशिष्टयोः प्राप्तिर्भवति मणिकुण्डले आबध्नीतेति ॥ २ ॥ यद्युभयोर्न विन्देताचार्यायैव ।। ३ ।। यद् द्रव्यमुभयोर्न विन्देत तदाचार्यायैव देयमशक्तौ सत्याम् ॥ ३ ॥