सामग्री पर जाएँ

पृष्ठम्:Ashwalayana gruhya sutra bhashyam.pdf/२३८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तृतीयोऽध्यायः समावृत्तो ब्रह्मचारिकल्पेन ॥ १३ ॥ १६६ समावृत्तो ब्रह्मचारिकल्पेनाधीते । ब्रह्मचारिधर्मेणेत्यर्थः । यद्येवं मेखलादयो धर्माः प्राप्नुवन्ति । नेत्युच्यते । स्वाध्यायकाले ये विहितास्ते भवन्ति । के पुनस्ते । मधुमांसानशनं ब्रह्मचर्यं खट्वाशयनादयश्च । कथं पुनरेतद् गम्यते यथा एते भवन्तीति । यदि हि सर्व एतेऽभिप्रेताः स्युर्ब्रह्म- चारिवदित्येव ब्रवीति । । तेन सर्वे धर्मा न भवन्तीति । कथमेतद् गम्यते यथा मध्वनशनादयो धर्मा भवन्तीति । एतैरत्यन्तसंयोगात् । ते स्वाध्यायेन चात्यन्तं संयुज्यन्ते । तस्मादेते भवन्तीति ॥ १३ ॥ यथान्यायमितरे ॥ १४ ॥ यथान्यायमधीयते ब्रह्मचारिणः । किमर्थं वचनम् । एतस्मिन्नध्ययने ब्रह्मचारिणामपि प्रवृत्तिर्यथा स्यादिति । कथं वा न स्यात् । समावृत्तानां विधानात् । अधिकाराच्च ।। १४ ।। जायोपेयेत्येके ।। १५ ॥ एके आचार्याः उपगमनमिच्छन्ति भार्यायाः ।। १५ ।। कस्मात्- प्राजापत्यं तत् ॥ १६॥ प्रजार्थं तदित्युक्तं भवति । यत् प्रजार्थं भार्योपगमनं तत् कर्तव्यमिति । अथ किमर्थं प्राजापत्यमित्येतदारभ्यते । अर्थादेव भार्योपगमनं प्रजार्थं भविष्यति । ब्रवीति । एतद् दर्शयति यथर्तुकाल एवोपगमनं स्यात् अन्य- स्मिन् काले मा भूदिति । अत एव तदारभ्यते ॥ १६ ॥ I 1 सर्वे -- added in B.