सामग्री पर जाएँ

पृष्ठम्:Ashwalayana gruhya sutra bhashyam.pdf/२३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तृतीयोऽध्यायः १६५ यद्येवं श्रावणे भाद्रपदे वेति वक्तव्यम् । एवं तहिं न कश्चित् संशयः । एवं तूच्यमाने ऽनवेक्ष्यौषधिप्रादुर्भावं विकल्पः स्यात् । तच्चानिष्टम् । तेन तत्कृतोऽयं विकल्पः कथं स्यादित्यतः ओषधिप्रादुर्भाव उच्यते । तस्मिन् ' श्रवणेन कर्तव्यम् ॥ २ ॥ श्रावणस्य पञ्चम्यां हस्तेन वा ॥ ३ ॥ श्रावणस्य वा पञ्चम्यामुपाकरणं कर्तव्यम् । यदा पञ्चमी हस्तेन युज्यते तदायं विकल्पो भवति ।। ३ ।। आज्यभागौ हुत्वाज्याहुतीर्जुहुयात् । सावित्यै ब्रह्मणे श्रद्धा मेधायै प्रज्ञायै धारणायै सदसस्पतयेऽनुमतये छन्दोभ्य ऋषिभ्यश्चेति ॥ ४॥ आज्यभागयोर्वचनं नित्यार्थम् । हुत्वाज्याहुतीर्जुहोति सावित्यै ब्रह्मणे इत्येवमाद्याः । अथाज्यग्रहणं किमर्थम् । नियमार्थमाज्याहुतिवचनम् । वक्ष्यति 'एताभ्यो देवताभ्योऽनेन हुत्वा ' ( ३. ५. १८) इति । तत्रापि कथमाज्याहुतय एव स्युरित्यत आज्याहुतिवचनम् ॥ ४ ॥ अथ दधिसक्तून् जुहोति । ( ऋ० सं० १. १. १ ) इत्येका ।। ५ ।। 'अग्निमीळे पुरोहितम् ' । अथ दधिसक्तून् जुहोति अग्निमीळे इत्येवमादिभिर्मन्त्रैः । अग्निमीळे पुरोहितमित्येकेति, एकेति न वक्तव्यम् । कस्मात् । परिभाषासिद्धत्वात् । तत्तु क्रियते वचनिवृत्त्यर्थम् । उत्तरत कुषुम्भक इत्येवमारभ्य वचा इति वक्ष्यति । तन्निवृत्त्यर्थमेकग्रह्णम् ।। ५ ।। 1 तस्मात् -- A, C.