१६२ आश्वलायनगृह्यसूत्रभाष्यम् प्रजापतिर्ब्रह्मा वेदा देवा ऋषयः सर्वाणि छन्दांस्योंकारो वषट्कारो व्याहृतयः सावित्री यज्ञा द्यावापृथिवी अन्तरिक्षमहो- रात्राणि सांख्याः सिद्धाः समुद्रा नद्यो गिरयः क्षेत्रौषधिवनस्पति- गन्धर्वाप्सरसो नागा वयांसि गावः साध्या विप्रा यक्षा रक्षांसि भूतान्येवमन्तानि ॥ २ ॥ प्रजापतिस्तृप्यतु । एवं तर्पयति परस्मैपदेन । ब्रह्मा वेदा देवा ऋषयश्चेत्येवमाद्यास्तर्पयति । एवमन्तानि तृप्यन्तु । एवमन्तानीति किमर्थमारभ्यते । कथं एवमन्तानां तर्पणं स्यादिति । किं सिद्धं भवति । एकवद् द्विवद् बहुवच्च वचनात् तृप्यतु तृप्यतां तृप्यन्त्विति सिद्धं भवति । नैतदस्ति प्रयोजनम् । अर्थेनैव प्राप्नोति । एवं तर्हि मन्त्र एवायम् एवमन्तानि तृप्यन्त्विति । क्षेत्रौषधिवनस्पतिगन्धर्वाप्सरसस्तृप्यन्तु । समासेनोपदिष्टा- नामेवं भवति । अथ प्रतिवाक्यं नागाद्यानि भूतानि तृप्यन्त्वित्याह ॥ २ ॥ । अथ ऋषयः । शर्ताचनो माध्यमा गृत्समदो विश्वामित्रो वामदेवोऽत्रिर्भरद्वाजो वसिष्ठः प्रगाथाः पावमान्यः क्षुद्रसूक्ता महासुक्ता इति ॥ ३ ॥ I अथ ऋषींस्तर्पयति । ते शतचिन इत्येवमादयः । प्रतिवाक्यं च भेदो भवति । तेन ऋषीणामेवोच्यमानानामथ ऋषय इति यदारभ्यते तन्नि यमार्थम् । कथमेतस्मिन् प्रदेशे नित्यमेते ऋषयः स्युरिति । कथं वानित्यत्वं स्यादिति । ' एताश्चैव देवतास्तर्पयन्ति ' 1 ( ३. ४. १८ ) इत्युच्यमाने ऽदेवतात्वादृषीणां न ग्रहणं स्यात् । तस्मान्नियम्यते ॥ ३ ॥ प्राचीनावीती ॥ ४ ॥ 1 Cf. comm. on III, 4. 1.
पृष्ठम्:Ashwalayana gruhya sutra bhashyam.pdf/२३१
दिखावट