सामग्री पर जाएँ

पृष्ठम्:Ashwalayana gruhya sutra bhashyam.pdf/२२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तृतीयोऽध्यायः १८७ स्वाध्यायमित्येवमुच्यमाने अथशब्दोऽयमनन्तरार्थः कल्प्येत । तथा सति पूर्वान् यज्ञान् कृत्वा एतस्मिन् काले ब्रह्मयज्ञः स्यात् । विधिग्रहणे क्रियमाणे विधिमात्रमेव निर्दिश्यते न क्रम इति । तेनानियत: क्रम इति ॥ १ ॥ प्राग्वोदग्वा' ग्रामान्निष्क्रम्याप आप्लुत्य शुचौ देशे यज्ञो- पवीत्याचम्याक्लिन्नवासा दर्भाणां महदुपस्तीर्य प्राक्कूलानां तेषु प्राङ्मुख उपविश्योपस्थं कृत्वा दक्षिणोत्तरौ पाणी संधाय पवित्र- वन्तौ । विज्ञायतेऽपां वा एष ओषधीनां रसो यद् दर्भाः सरसमेव तद् ब्रह्म करोति । द्यावापृथिव्योः संधिमोक्षमाणः संमील्य वा यथा वा युक्तमात्मानं मन्येत तथा युक्तोऽधीयीत स्वाध्यायम् ॥ २ ॥ प्राग्वोदग्वा ग्रामान्निष्क्रामति । अथोभयत्र वाशब्दः कस्मात् प्रयुज्यते । अप्रतिषिद्धायां दिशि निष्क्रमणं भवतीत्येतत् प्रदर्शितं भवति । निष्क्र- म्याप आप्लावयति । अब्ग्रहणं किमर्थम् । अद्भिरुद्धृताभिर्मा भूदिति । कथमवगाहनं स्यादित्येतदर्थमब्ग्रहणम् । आप्लुत्य यज्ञोपवीत्याचामति । अथ यज्ञोपवीतिग्रहणं किमर्थम् । नियमार्थम् । कथमेतस्मिन् काले यज्ञोपवीती स्यात् प्राक् चानियमः स्यादिति । आचमनग्रहणं क्रियते कस्मात् । कर्माङ्गमाचमनं कथं स्यादिति । तत्राक्लिन्नवासा इति केचित् कथं- चिदक्लिन्नवासा इति वर्णयन्ति । तत्र शास्त्रान्तरप्रसिद्धेः सद्यः शोधितस्य वाससो ग्रहणमिच्छन्ति शुष्कस्य । अन्ये पुनः शास्त्रान्तरप्रसिद्धेरेवा- क्लिन्नस्य वाससो ग्रहणमिच्छन्ति । तेनोभयथा दृष्टत्वादागंमादन्यतरत् प्रतिपत्तव्यम् । दर्भाणां महदुपस्तृणाति प्राक्कूलानाम् । प्रागग्राणामित्यर्थः । उपस्तीर्य तेषु प्राङ्मुख उपविशति उपस्थं कृत्वा । तत्र प्राङ्मुखत्वं न विधातव्यम् । परिभाषासामर्थ्यात् । तत्तु विधीयते प्रागनियमार्थम् । 1 प्राङ वोदङ वा B. 2 शुक्लस्थान्ये - - A, C. }