१८६ आश्वलायनगृह्यसूत्रभाष्यम् यन्मनुष्येभ्यो ददाति स मनुष्ययज्ञः ॥ ७ ॥ { तत्र प्रसिद्धवच्चोदना नोपपद्यते । 'मनुष्यदानस्याचोदितत्वात् । उच्यते । चोदितम् । क्व । स्मृतौ । किमिति चोदना । ततोऽतिथीन् भोजयेत् ' ( वासिष्ठधर्मसू० ११.६ ) इत्युक्तम् । अवश्यं चैतदेवमभ्यु - पगन्तव्यम् । इतरथा हि मनुष्यदानं द्वि: : प्रसज्येत । तच्चेदं च । तस्मात् तदेवाभ्युपगन्तव्यं मनुष्यदानम् ।। ७ ।। तानेतान् यज्ञानहरहः कुर्वीत ॥ ८ ॥ I I एतेषां यज्ञानामहरहः क्रिया चोद्यते । सा न चोदयितव्या । कस्मात् । सिद्धत्वात् । तदुक्तमनारम्भे कारणम् । उच्यते । आरब्धव्यम् । किं कारणम् । प्रतिषेधविषयेऽपि प्राप्त्यर्थम् । उत्तरत्न' द्वादशरात्रं वा महागुरुषु दानाध्ययने वर्जयेरन् ' ( ४. ४. १५ ) इति । तत्र सामान्येन दानाध्ययनप्रतिषेधः । स इहापि प्राप्नोति । तत्रापि कथं स्यादित्येवमर्थमहरहर्ग्रहणं क्रियते । कथं दानं तत्रापि प्रसज्येतेति ब्रवीति । एवमपि ब्रुवतो दोष: । ब्रह्मयज्ञस्या - प्यहरहः क्रिया प्राप्नोति । न भविष्यति । कस्मात् । प्रतिषिद्धत्वात् । वक्ष्यति 'तस्य द्वावनध्यायौ ' ( ३. ४. 8 ) इति । एवमपि मनुष्यदानं प्रस- ज्येत । तदपि न भविष्यति । किं कारणम् । भोक्तृप्रतिगृहीलोरभावात् । तेनार्थात् त्रयाणां यज्ञानांमहरहः क्रिया प्राप्नोति । देवयज्ञो भूतयज्ञः पितृयज्ञ । इत्येतेषाम् । तस्मादारब्धव्यमिदं सूत्रम् ।। ८ । इति तृतीये प्रथमा कण्डिका अथ स्वाध्यायविधिः ॥ १ ॥ अथ स्वाध्यायविधिर्वक्ष्यते । अथशब्दोऽधिकारार्थः । विधिग्रहणं किमर्थम् । उच्यते । यदि विधिग्रहणं न क्रियते तदा दोषः स्यात् । अथ 1 मनुष्ययज्ञस्य - A, C. 4 अत्रापि – A, C. दानं 2 अन -- added in B, D. 3 इह - A, C added in B, D. 6 Omitted in A, C.
पृष्ठम्:Ashwalayana gruhya sutra bhashyam.pdf/२२५
दिखावट