तृतीयोऽध्यायः १८५ TVP इति । तस्मादग्नौ होतव्यमिति । यद्यप्यस्य विधित्वं नोपपद्यते अध्याहार्य- त्वाद् वाक्यस्य । तथाप्युत्तरेण वाक्येन कल्प्यते । 'तानेतान् यज्ञानहरहः कुर्वीत ' इति (३.१.८ ) । अनुवादत्वे सति वचनमिदमपार्थकं स्यात् । कस्मात् । अहरहः क्रिया प्रसिद्धेति । वैश्वदेवस्य तावदन्नसंस्कारत्वादहरहः- क्रिया प्रसिद्धा । बलिहरणादीनां च तत्संबन्धात् । ब्रह्मयज्ञे च दर्शयति 'तस्य द्वावनध्यायौ ' इति ( ३. ४. ९ ) । तेन विधय एवैते । तथापि विधित्वं नोपपद्यते । कस्मात् । द्रव्यदेवतानुपदेशात् । नापि द्रव्यमुपदिश्यते होमार्थे नापि देवता यस्यै हूयते । ननु च देवता उपदिष्टा: ' अग्निरिन्द्र: ' (१. ३. ८) इत्येवमाद्याः । एवं ते ब्रुवतो ऽनादिष्टेन द्रव्येण होम: प्रसज्येत । किंच तत् । आज्यम् । न चैवं कर्म क्रियते । तस्मान्नैते विधय इति । अनुवादा एवैते । ननु चानुवादत्वे सति 'तानेतान् यज्ञानहरहः कुर्वीत ' (३.१.८ इति 'वचनमतिरिच्यते । नेत्युच्यते । तत्रान्यत् प्रयोजनं वक्ष्यते । तेनानु- वादत्वं सिद्धम् ।। ३॥ यद् बलि करोति स भूतयज्ञः ॥ ४ ॥ वैश्वदेवे यद् बलिहरणमाम्नातं तदिदं निर्दिश्यते ॥ ४ ॥ यत् पितृभ्यो ददाति स पितृयज्ञः ॥ ५ ॥ ' स्वधा पितृभ्य: ' (१. २. ९) इति यच्छेषनिनयनमाम्नातं स पितृयज्ञो भवति ॥ ५ ॥ 'यत् स्वाध्यायमधीते स ब्रह्मयज्ञः ।। ६ ।। यदिदमध्ययनं वक्ष्यते तदनेन विधिना कर्तव्यमिति सावित्यादि- तर्पणान्तं स ब्रह्मयज्ञ इति वेदितव्यः * ।। ६ । 1 सूत्रम् - A. C. 2 This passage omitted in A. C. 3 This sūtra and comm. thercon are written before the sūtra 5 in MSS. 4 इति वेदितव्य: omitted in A. C.
पृष्ठम्:Ashwalayana gruhya sutra bhashyam.pdf/२२४
दिखावट