f द्वितीयोऽध्यायः उप मैतु मयोभुव ऊर्जं चौजश्च बिभ्रतोः । दुहाना अक्षितं पयो मयि गोष्ठे निविशध्वं यथा १८३ भवाम्युत्तमः ' ॥ ६॥ ताः आयतीर्गाः अनुमन्त्रयेत यासासूध इत्यनेन मन्त्रेण || ६ || 'या देवेषु तन्वामैरयन्त' (ऋ० सं० १० १६९. ३ ) इति च सूक्तशेषम् ॥ ७॥ आगावीयमेके || ८ ॥ एके आचार्याः आगावीयमिच्छन्ति गवामनुमन्त्रणे आयतीनाम् । आ गावो अग्मन् ' (ऋ० सं० ६. २८ . १ ) इत्येतत् सूक्तम् ॥ ८ ॥ गणानासामुपतिष्ठेता गुरुगवीनाम् ॥ ६ ॥ आसां गवां गणानुपतिष्ठेत । गणाः संघा' इत्येतदुक्तं भवति । कि सर्व एवोपस्थेया गणा गवाम् । नेत्युच्यते । अगुरुगवीनां ये गणास्तानु- पतिष्ठेत । अत्र गुरुगवीप्रतिषेधात् परगवीनामेतदुपस्थानं भवति ॥ ६ ॥ तत्र त्वयं मन्त्र उपदिश्यते । अनेनोपस्थानं कर्तव्यम्-- 'भूताः स्थ प्रशस्ताः स्थ शोभनाः प्रियाः प्रियो वो भूयासं शं मयि जानीध्वं शं मयि जानीध्वम् ' ॥ १० ॥ इत्यनेन मन्त्रेण ॥ १० ॥ इति द्वितीये दशमी कण्डिका ' इति देवस्वामिविरचित आश्वलायनगृह्यभाष्ये द्वितीयोऽध्यायः 1 गवां -- omitted in A, C. in A, C, D. 4 इति गृह्यव्याख्याने गह्यव्याख्यायां द्वितीयोऽध्यायः — B.
- संघाला : - A, C.
3 Omitted द्वितीयोऽध्यायः - D; इत्याश्वलायन-