द्वितीयोऽध्यायः १७६ मध्यमस्थूणायाः गर्ते अवटे अवधाय । पुनरवधायेति कस्मात् । उच्यते । यदि नोच्यते अनेन विशेषविधिना बाध्येत । तत् पुनरवधायग्रहणं क्रियते । प्रागग्रोदगग्रान् कुशानास्तृणाति । आस्तीर्य व्रीहियवमती : अपः आसेचते निषिञ्चति अच्युतायेत्यनेन मन्त्रेण ॥ २० ॥ अथैनामुच्छ्रियमाणामनुमन्त्रयेत -- इहैव तिष्ठ निमिता तिल्वलास्तामिरावतीम् । मध्ये पोषस्य तिष्ठन्तीमा त्वा प्रापन्नघायवः || आ त्वा कुमारस्तरुण आ वत्सो जायतां सह । आ त्वा परिश्रितः कुम्भ आ दध्नः कलशैरयन् ॥ इति ।। २१ ।। 7 अस्मिन्नacsवधा या उच्छ्रीयते स्थूणा तामनुमन्त्रयेत इहैव तिष्ठेत्येताभ्यामृग्भ्याम् ।। २१ ।। इति द्वितीये अष्टमी कण्डिका वंशमाधीयमानम् -- 'ऋतेन स्थूणामधिरोह वंश द्राघीय आयुः प्रतरं दधानः (अ० सं० ३ १२६ ) । इति ॥ १ ॥ वंशमाधीयमानमनुमन्त्रयेत । स्थूणायां निधीयमानं स्थाप्यमानम् । ऋतेनेत्यनेन मन्त्रेण ।। १ ।। सर्वासु चतसृषु शिलासु मणिकं प्रतिष्ठापयेत्-- 'पृथिव्या अधि संभव' इति ॥ २ ॥ सह दुर्वया सदूर्वास्तासु चतसृषु शिलासु मणिकं प्रतिष्ठापयन्ति पृथिव्या इत्यनेन मन्त्रेण ॥ २ ॥
पृष्ठम्:Ashwalayana gruhya sutra bhashyam.pdf/२१८
दिखावट