द्वितीयोऽध्यायः १६६ वानस्पत्यग्रहणेन शकटानां प्रसङ्गो भवति । तेन रथाङ्गवचनात् बृस्यादीनामप्रसङ्गः । एवं वर्ण्यमाने अनुद्दिष्टाया ऋचः एतयेति निर्देशो नोपपद्यते । अत्राप्येष दोषः । तस्मात् पूर्व एव सूत्रच्छेदः । ननु च तत्रापि बृस्यादीनां प्रसङ्ग इत्येष दोषः । न भविष्यति । कस्मात् । रथाधिकारात् । तेन तज्जातीयान्येवान्यानि वानस्पत्यानि प्रतीयन्ते । तेन शकटादीनामेव प्रसङ्गी भवति । तस्माददोषः ।। ८ ।। 'स्थिरौ गावौ भवतां वीळुरक्ष:' ( ऋ० सं० ३.५३.१७ ) इति रथाङ्गमभिमृशेत् ॥ ६ ॥ रथाङ्गमिति यद्यदङ्गमस्यामृचि दृष्टं तत्तदभिमृशेत् ॥ ६ ॥ 'सुत्रामाणं पृथिवीं द्यामनेहसम् (ऋ० सं० १०.६३. १० ) इति नावम् ॥ १० ॥ सुत्रामाणमित्यनयर्चा नावमारोहेत् । ननु चाभिमृशेदिति वर्तते नेत्युच्यते । प्रासङ्गिकमिदमभिमर्शनम् । आरोहेदित्येतदेवात प्राधान्येन वर्तते । न च प्रसङ्गः प्रकृतमतिवर्तते इत्येष हि कृतान्तः || १० || नवरथेन यशस्विनं वृक्षं हृदं वाविदासिनं प्रदक्षिणं कृत्वा फलवती : शाखा आहरेत् ।। ११ ।। नवरथऽयं विशेष: । अनुपयुक्तो रथो नवरथ इत्युच्यते । तेन यशस्विनं वृक्षम् । प्रकाशो यः स यशस्वीत्युच्यते । तं यशस्विनम् । हृदं ar अविदासिनम् | अविशोष्यविदासीत्युच्यते । तं वा प्रदक्षिणं कृत्वा फलवती : शाखा आहरेत् । फलवत्यो याः शाखास्ता आहरति । आनयेत् । या गृहोपयोग्याः शाखास्ता आहरेत् ।। ११ ।। 1 तं यशस्विनं up to is omitted in B.
पृष्ठम्:Ashwalayana gruhya sutra bhashyam.pdf/२०८
दिखावट