द्वितीयोऽध्यायः १६३ अपरा च लेखा अपरा च कर्षू : अपराश्च कर्ष्णः ताः अपरास्तासु अपरासु स्त्रीभ्यः पिण्डान् निपूणीयात् । एवमुद्देशेन विधयो विचारिताः । तथापि त परीक्ष्य कर्तव्यः प्रयोगः ॥ ६ ॥ तु एतेन माध्यावर्षं प्रोष्ठपद्याः ॥ १० ॥ एतेन विधानेन प्रोष्ठपद्यां माध्यावर्षं नाम कर्म भवति । किमेतेनेति प्रतिनिर्दिश्यते ।
उच्यते । अनन्तरत्वादन्वष्टक्यम् । तन्नोपपद्यते । कस्मात् । कर्मैकदेशत्वात् । तेनाष्टकाकर्म निर्दिश्यते । कस्मात् । प्राधान्यात् । तेन पूर्वेद्युः कर्मादि सर्व कर्म भवति । कालश्च ।। १० ।। अपरपक्षे मासि मासि चैवम् ॥ ११ ॥ पितृभ्यो दद्यात् । तत्रापरपक्षग्रहणं पूर्वप्राप्तस्य कालस्य निवृत्त्यर्थम् । एवमिति किं प्रतिनिर्दिश्यते । अन्वष्टक्यम् । ननु च कर्मैकदेशत्वात् न प्राप्नोति । संनिकर्षाद् भविष्यति । ननु पूर्ववदतिदेशः प्राप्नोति । उच्यते । अन्वष्टक्यमेव भवति । कस्मात् । पुनरतिदेशात् । यदि त्वष्टकाकर्माभिप्रेतं स्यात् मासि मासि यचेत्येतावदेव उपदिशेत् । अपरपक्षे मासि मासि चेत्येवं सिद्धे यत् पुनरेवमिति निर्दिशति तज्ज्ञापयति अन्वष्टक्यं प्रतिनिदिश्यत इति । एवमेके । अन्ये त्वन्यथा । कथम् । एतेन मध्यावर्षं प्रोष्ठपद्या अपर- पक्षे । तेषामेतेनेत्यन्वष्टक्यं प्रतिनिदिश्यते । कस्मात् । प्रकृतत्वात् । प्रोष्ठपद्याः पौर्णमास्याः संनिधावपरपक्षग्रहणप्रयोजनमुक्तम् । मासि मासि चैवं पितृभ्यो दद्यात् । कथम् । यथा माध्यावर्षमित्युच्यते । यदा' उभयता- l 1 विधेयो विचारित:--A, C 2 प्रोष्ठपद्याम् — D. omitted in A, C. 6 'ह्यष्टका --- B, D. ' यदा — omitted in B. |
- विधानेन --~
4 कर्म --- omitted in A, C. 5 एतेनेति किं -- B, D. 8 प्रोष्ठपद्याम् -- B, D. 7 मासिचेत्येवं D.