१५६ आश्वलायनगृह्यसूत्रभाष्यम् कस्मात् । न ह्यनुत्पाट्य बपाया होमः शक्यते कर्तुम् । तत्र प्रयोजनम् -- कथं सर्वत्रानेनैव मन्त्रेणोत्खिद्य जुहुयात् इति । कथं वा न स्यात् । पितृलिङ्गत्वान्मन्त्रस्य । पितृदेवत्यायामेवायं मन्त्रः प्रसज्येत । कस्मात् । लिङ्गात् । तेन कथमयं मन्त्रः सर्वत्र नित्यः स्यादित्यत उत्खिद्यवचनम् * । न भवतीत्यपरे । उत्तरत्र प्रयोगदर्शनात् । अथावदानानां स्थालीपा- कस्य चेति । कल्पग्रहणस्य प्रयोजनम् - मधुपर्कादिषु गौरालभ्यते । अथापि ब्राह्मणाय वा राजन्याय वाभ्यागताय महोक्षाणं महाजं वा पचेदिति देवताचोदनं न स्यात् । ब्राह्मणवचनात् । तत्रानेन पशुकल्पेन संज्ञपनं स्यादिति नियमार्थं कल्पग्रहणं क्रियत इति ब्रुवते । 'हुता अग्नौ हूयमाना अग्नौ प्रहुता ब्राह्मणभोजने ब्रह्मणिहुता: ' (१.१.३ ) इति जातिवाचकम् । तस्माच्छास्त्रान्तरेण गम्यते । तस्मान्नियमार्थमेवेदं कल्पग्रहणम् || १३ || अथावदानानां स्थालीपाकस्य च ॥ १४ ॥ " होतव्यमुत्तरैर्मन्त्रैः । तत्र स्थालीपाकस्य चेति स्थालीपाकविकल्पे- ऽपि एतैर्मन्त्रैर्होतव्यमिति । तस्मात् स्थालीपाकस्य चेति ।। १४ ।। 'अग्ने नय सुपथा राये अस्मान् ' (ऋ० सं० १. १८६.१ ) इति द्वे । ' ग्रीष्मो हेमन्त ऋतवः शिवा नो वर्षा: शिवा अभया शरन्नः । संवत्सरोऽधिपतिः प्राणदो नो होरात्रे कृणुतां दीर्घमायुः ' स्वाहा || 1 अपितृदेवत्यायामष्टका न प्राप्नुयात् -- B. 2 कल्पाल्लिङ्गात् -- B. 3 कथम् - omitted in B. 4 उच्यते - added in B. 5 Portion from here up to the end of the bhāya on this sūtra is omitted in B.
- अवदानानां स्थालीपाकस्य च मन्त्रा भवन्ति -- B.