सामग्री पर जाएँ

पृष्ठम्:Ashwalayana gruhya sutra bhashyam.pdf/१८५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१४६ आश्वलायनगृह्यसूत्रभाष्यम् कृत्वान्यत्रापि प्रधानाहुतिभ्योऽनन्तरं स्विष्टकृत् स्यात् । ननु च ज्ञापकान्न भविष्यतीति । एवं तह्युभयथा ज्ञापकं संपद्यते । अन्यत्र विकल्पः स्यात् । प्रधानाहुतिभ्योऽनन्तरं कर्मणो वान्त इति मा भूदस्य ज्ञापकत्वमित्यन- ग्रहणं क्रियते ॥ ४ ॥ ' अभयं नः प्राजापत्येभ्यो भूयात्' इत्यग्निमीक्षमाणो जपति ।। ५ ।। ।। ५ ।। अभयं नः प्राजापत्येभ्यो भूयादित्येतं मन्त्रमग्निमीक्षमाणो जपति 'शिवो नः सुमना भव' ( तै० सं० ४. ५. १.४ ) इति । हेमन्तं मनसा ध्यायेत् || ६ || शिवो न इत्येतं मन्त्रमुक्त्वा हेमन्तं मनसा ध्यायेदिति । तत्र मनसी ग्रहणं शक्यमकर्तुम् । कस्मात् । ध्यानस्य मनोवृत्तित्वात् । तेन ध्यानं मनसैव भविष्यति । यन्मनोग्रहणं क्रियते कथं गौणं ध्यानं स्यात् । न मुख्यमिति । किं पुनर्मुख्यं किं पुनर्गौणम् । अर्थध्यानं मुख्यं शब्दध्यानं गौणम् । तेन शब्दध्यानं कथं स्यान्न ऋतोरिति । उच्यते । नैव ऋतोर्ध्यानं भविष्यति । कस्मात् । अमूर्तत्वात् । उच्यते । गुणानां ध्यानं स्यात् । तेन शब्दध्यानं स्यादित्यतो यत्नः क्रियते । आमन्त्रितया विभक्त्या हेमन्तेति ।। ६ ।। पश्चादग्नेः स्वस्तरः स्वास्तीर्णस्तस्मिन्नुपविश्य ' स्योना पृथिवि भव' (ऋ० सं० १. २२. १५ ) इति जपित्वा संविशेत् सामात्यः प्राक्शिरा उदङ्मुखः ॥ ७ ॥ पश्चिमस्यां दिशि स्वस्तरः स्वस्तीर्णः । स्वास्तीर्णः शोभन आस्तीर्ण इत्युक्तं भवति । ये पुनः स्वस्तीर्ण इति पठन्ति तेषां स्वस्तर I पश्चिमायां – A, C, D. 2 Omitted in A, C, D.