सामग्री पर जाएँ

पृष्ठम्:Ashwalayana gruhya sutra bhashyam.pdf/१८३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

૧૪૪ आश्वलायनगृह्यसूत्रभाष्यम् अनाहिताग्नेरपि शालाग्नौ ॥ ६ ॥ । अनाहिताग्नेरपि शालाग्नावाग्रयणस्थालीपाको भवति । अथ शालाग्निग्रहणमपार्थकम् । अनाहिताग्नेः कर्मणां प्राप्तत्वात् शालाग्नावेव शालाग्निरिति गृह्य एबोच्यते । एवं सिद्धे शालाग्निग्रहणं कुर्वनतज्ज्ञापयति, पूर्वविधानं शालाग्नौ न भवतीति त्रेतायां सिद्धं भवति । तेन सर्व एव पक्षा अग्निहोत्रहोमादयः आग्रयणस्थालीपाकान्ता अहिताग्नेविकल्प्यन्ते, अनाहिताग्नेराग्रयणस्थालीपाको गृह्य एव सिद्धः ।। ६ ॥ इति द्वितीये द्वितीया कण्डिका मार्गशीर्ष्या प्रत्यवरोहणं चतुर्दश्याम् ॥ १ ॥ I मृगशिरसा युक्ता पौर्णमासी मार्गशीर्षी । सा यस्मिन् मासि भवति स मार्गशीर्षो मासः । तस्मिन् भवा मार्गशीर्षी । का । चतुर्दशी । तस्यां चतुर्दश्यां प्रत्यवरोहणं कर्तव्यम् । यद्येवं द्विः कर्म प्राप्नोति चतुर्द- शीद्वित्वात् । उच्यते । एकस्यामेव । सकृत् कृते कृत: शास्त्रार्थं इति । किंच यदा पौर्णमास्यां तदा सकृत् प्रयोगः, चतुर्दश्यां द्विर्भविष्यतीति तन्नोपपद्यते । तेन चतुर्दश्यामपि सकृदेव प्रयोगः । एवमप्यनियमः प्राप्नोति । कृष्णचतुर्दश्यां शुक्लचतुर्दश्यां वेति । यस्मात् पौर्णमास्या सह विकल्पः तस्माच्छुक्लचतुर्दश्यामेव भवति नेतरस्यामिति ॥ १ ॥ पौर्णमास्यां वा ॥ २॥ पौर्णमास्यां वा मार्गशीर्ष्यामेव तत् कर्म भवति ॥ २ ॥ निवेशनं पुनर्नवीकृत्य पायसस्य जुहुयुः । लेपनस्तरणोपस्तरणैरस्तमिते