सामग्री पर जाएँ

पृष्ठम्:Ashwalayana gruhya sutra bhashyam.pdf/१८१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१४२ आश्वलायनगृह्यसूत्रभाष्यम् वोपहरन्ति । तत्र तु कालपरिगणनं ज्ञेयम् । कालस्तु कदाचिद् वर्धते कदाचिद् हसते । अधिकमास उपजायते । अहानि च हसन्ति । तत् परिगणयित्वा आहुतयो यावत्यो भवन्ति तावत्यस्तस्मिन्नेवानि होतव्या इत्ययमर्थः ।। १६ ।। इति द्वितीये प्रथमा कण्डिका आश्वयुज्यामाश्वयुजीकर्म ॥ १ ॥ अश्वयुजा युक्ता आश्वयुजी । तस्यामाश्वयुजीकर्म भवति ॥ १ ॥ निवेशनमलंकृत्य स्नाताः शुचिवाससः पशुपतये स्थाली- पार्क निरुप्य जुहुयुः । ' पशुपतये शिवाय शंकराय पूषातकाय स्वाहा ' इति ॥ इति ॥ २ ॥ निवेशनं गृहमित्युच्यते । अलंकृत्य - निवेशनमलंकरणैरुपले- पनादिभिः । स्नाताः शुचिवाससः सर्वे शुद्धवाससः इत्यर्थः । पशुपतये निरुप्य स्थालीपाकं जुहुयुः । पशुपतये शिवायेत्यनेन मन्त्रेण । निरुप्य - ग्रह्णमपार्थकम् । सिद्धत्वात् । निरुप्यग्रहणं विकारोपदेशार्थम् । पशु- पतय एव कथं निर्वापः स्यादिति । इतरथा हि न प्राप्नोति । आदिष्ट- मन्त्रत्वात् । एवं ब्रुवन् ज्ञापयति-- आदिष्टमन्त्रेषु पाकयज्ञेषु मन्त्रनिर्वापणं नहि भवतीति । जुहुयुरिति बहुवचनं किमर्थम् । यदि सर्वे जुहुयुः सर्वेषां मन्त्रो भवति । नेत्युच्यते । गृही तं मन्त्रं ब्रूते । अन्ये उपासते ॥ २ ॥ पृषातकमञ्जलिना जुहुयात् ॥ ३ ॥ अलंकारमुपलेपनादिभिः — B. 2 · शुक्लवाससः -- A, C, D,