द्वितीयोऽध्यायः १४१ ध्रुव देवदत्तं परिददामि ध्रुव यज्ञदत्तमित्येवममात्याननुपूर्वं परि- ददाति निर्दिशतीत्युच्यते । ध्रुव मां ते परिददामीत्यात्मानमन्ततः परि- ददाति । तत्रार्थात् स्वयंकर्तृकमेतत् कर्म भवति । यदा पुनरन्यः करोति तदा प्रतिनिधिभूतत्वात् तस्य कर्तुर्गृहिण एवान्ततः परिदानं करोति ॥ १३ ॥ नैनमन्तरा व्यवेयुरा परिदानात् ॥ १४ ॥ अन्तरा न व्यवेयुर्न गच्छेयुरित्यर्थः । अग्निना सह व्यवायः प्रति- षिध्यते । एवमेके । अन्ये पुनर्बलिना सह व्यवायप्रतिषेधमिच्छन्ति || १४ ||: I सर्वदेवजनेभ्यः स्वाहेति सायंप्रातबल हरेदा प्रत्यवरो- हणात् ।। १५ ।। सायंप्रातर्बलिहरणं कर्तव्यमा प्रत्यवरोहणात् । अथ मन्त्रोपदेशो- पार्थकः । कथम् । बलिहरणे सिद्धत्वात् । बलिहरणचोदनायां मन्तः प्राप्नोति । उच्यते । मन्त्रोपदेशो नियमार्थः । कथं मन्त्र एव स्यात् सायंप्रातर्नान्यो विधिरित्युच्यते । यद्येवं दर्व्या अपि निवृत्तिः प्राप्नोति । न भविष्यति । किं कारणम् । विशेषोपदेशात् दवीं च बलिहरणीमिति ( २ १ २ ) । तत्र वलिहरणीमिति न वक्तव्यम् । तत्त्वेतदर्थमेव क्रियते । तस्मादनिवृत्ति: । एवं तहि सक्तूनां निवृत्तिः प्राप्नोति । कस्मात् । अयत्नकरणात् ै । उच्यते । बलिहरणं हि सक्तुभिरेव क्रियते । कस्मात् । प्राधान्यात् । तस्मादनिवृत्तिः ॥ १५ ॥ Į 4 प्रसंख्याय हैके तावतो बलींस्तदहरेवोपहरन्ति ॥ १६ ॥ 1 . एके आचार्याः प्रसंख्याय परिगणयित्वेत्यर्थः । आ प्रत्यवरोहणा- द्यावत्य आहुतयो भवन्ति सायं प्रातश्च तावती: परिगणयित्वा तदहरे- 2 दर्व्याम् - added in B. 6 दीयते - D. 1 afafafa-B. 4 करणानि – A, C. तु — D. 3 अन A, C, D. + 7 Omitted in A, C.
पृष्ठम्:Ashwalayana gruhya sutra bhashyam.pdf/१८०
दिखावट