द्वितीयोऽध्यायः' श्रावण्यां पौर्णमास्यां श्रवणाकर्म ॥ १ ॥ श्रावण्याम् । श्रवणेन युक्ता " पौर्णमासी श्रावणी । तस्यां श्रावण्या पौर्णमास्यां श्रवणाकर्म भवति । तत्र संशयः । यदा पौर्णमासी श्रवणेन न युज्यते तदा कर्मेदं कर्तव्यं न कर्तव्यमिति । उच्यते । पौर्णमास्यां कर्तव्यम् । कस्मात् । नक्षत्रस्योपसर्जनभूतत्वात् । तत्र नक्षलविप्रयोगेऽपि पौर्णमास्यां कर्मेदं कर्तव्यम् ॥ १ ॥ अक्षतसक्तूनां नवं कलशं पूरयित्वा दव च बलिहरणीं नवे शिक्ये निदधाति ॥ २ ॥ ra अक्षतानां सक्तवः कर्तव्याः । अखण्डितानां यवानां सक्तवः तेषां नवं कलशं पूरयित्वा सक्तूनां दव व बलिहरणीं नवे शिक्ये निदधाति । स्थापयतीत्यर्थः । । तत्र केचिदिदमपि श्रवणाकर्मेति मन्यन्ते । किं कारणम् । तन्मध्य- पतितत्वात् । अन्ये पुनर्बुवते कर्मान्तरमिदमिति । सर्पर्बलिः कर्मान्तरम् । 'किमर्थं चेदमधिकारे चोदितमिति चेत् तुल्यकालत्वाच्चोदना । तस्मात् कर्मान्तरमिति ॥ २॥ अक्षतधानाः कृत्वा सर्पिषार्धा अनक्ति ॥ ३ ॥ 1 आश्वलानगृह्यसूत्रभाष्ये द्वितीयः - अथ द्वितीयोऽध्यायः प्रारभ्यते--A. 2 श्रवणयुक्ता — A, C. 3 न――omitted in A, C, D. 4 उच्यते--- 5 omitted in A, C, D. पतितत्वात् -- A, C. Gap of 3 - 4 words in A, C. 7 तदर्थं — A, C, D. . 8 सर्पिषार्धम् -- B. तस्य
पृष्ठम्:Ashwalayana gruhya sutra bhashyam.pdf/१७५
दिखावट