१३४ आश्वलायनगृह्यसूत्रभाष्यम् सर्व वा ।। २२ । सर्वं वा प्राश्नीयात् ।। २२ ।। अथाचमनीयेनान्वाचामति 'अमृतापिधानमसि ' ( तै० आ० १०. ३५. १ ) इति ॥ २३ ॥ I अथाचमनीयेनान्वाचामति अमृतापिधानमसीत्यनेन मन्त्रेण ॥ २३ ॥ सत्यं यशः श्रीर्मयि श्रीः श्रयताम्' इति द्वितीयम् ॥ २४ ॥ सत्यं यश इत्यनेन मन्त्रेण द्वितीयमाचामति ॥ २४ ॥ आचान्तोदकाय गां वेदयन्ते ।। २५ ।। तत्राचान्तोदकवचनमपार्थकम् । कस्मात् । आचमनस्य प्राप्तत्वात् । उच्यते । नेदं शौचार्थमाचमनं चोद्यते । कि तहि । कर्माङ्गमाचमनं चोद्यते । यथा दर्शपूर्णमासयोरग्निहोत्रे च । अथोदकवचनमपार्थकम् । कस्मात् । आचमनं ह्युदकेनैव भवति । उदकवचनं क्रियते अत्राचमनीय- निवृत्त्यर्थम् । गां वेदयन्ते आख्यापयन्ते ।। २५ ।। 'हतो मे पाप्मा पाप्मा मे हतः' इति जपित्वा 'ओं कुरुत इति कारयिष्यन् ॥ २६ ॥ 3 हतो मे पाप्मा इति जपित्वा कारयिष्यन् यदि भवति ओं कुरुतेति प्रैषं ब्रूते । पश्चादालब्धव्या सा गौः ।। २६ ।। माता रुद्राणां दुहिता वसूनाम् (ऋ० सं० ८. १०१.१५) इति जपित्वा 'ओम् उत्सृजत ' इत्युत्स्त्रक्ष्यन् ॥। २७ ।। 1 कथं A, C, D. कमर्थम् – A
पृष्ठम्:Ashwalayana gruhya sutra bhashyam.pdf/१७३
दिखावट