प्रथमोऽध्यायः १३३ 'विराजो दोहोऽसि' इति प्रथमं प्राश्नीयात् । 'विराजो दोहमशीय ' इति द्वितीयम् । 'मयि दोहः पद्यायै विराजः' इति तृतीयम् ॥ १७ ॥ प्रथमग्रहणमपार्थकम् । एवमपार्थकं दृष्ट्वा अन्यथा वर्णयन्ति । तिरुद्गृह्य प्रथममुद्ग्राहं प्राश्नीयात् । अथ द्वितीयमुद्ग्रहणं विराजो दोहमशीयेति प्राश्नीयात् । मयि दोह इति तृतीयमुद्ग्राहं प्राश्नीयात् इत्येवमेके । एतस्मिन्नपि पक्षे तृतीयग्रहणमपार्थकम् । तस्मात् पूर्वं एव पक्षः । ननु च प्रथमग्रहणमपार्थकम् । प्रवृत्तिराचार्यस्य । अन्यत्रापि करोति । ' आयुषे त्वा' (आ० श्रौ० २.४. ७) इत्यत्र । तस्मात् पूर्व एव पक्षः मन्त्राश्च' प्राशनं चोक्तम् ।। १७ ।। न सर्वम् ॥ १८ ॥ न सर्वं मधुपर्क प्राश्नीयात् ॥ १८ ॥ न तृप्ति गच्छेत् ॥ १६ ॥ न च तृप्ति गच्छेत् ॥ १६ ॥ ब्राह्मणायोदङ्कुच्छिष्टं प्रयच्छेत् ॥ २० ॥ दद्यादित्यर्थः ॥ २० ॥ अलाभेऽप्सु ।। २१ ।। ब्राह्मणस्यालाभे अप्सु निषिञ्चेत् ॥ २१ ॥ 1 Portion from here up to 4 is omitted in A, C, D by haplography. 2 अथापि -- 4, C, D. 3 मन्त्रश्च - A, C, D גי 4 उक्तः -- B.
पृष्ठम्:Ashwalayana gruhya sutra bhashyam.pdf/१७२
दिखावट