सामग्री पर जाएँ

पृष्ठम्:Ashwalayana gruhya sutra bhashyam.pdf/१७१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१३.२ आश्वलायनगृह्यसूत्रभाष्यम् मधु वाता ऋतायते ' (ऋ० सं० १. ६०, ६) इति तचेनावेक्ष्याना- मिकया चाङ्गुष्ठेन च त्रिः प्रदक्षिणमालोड्य ' वसवस्त्वा गायत्रेण छन्दसा भक्षयन्तु ' इति पुरस्तान्निमष्टि ।। १५ ।। देवस्य त्वेत्यनेन मन्त्रेणाञ्जलिना प्रतिगृह्णाति । तं मधुपर्क - माहृतं सन्तं' प्रतिगृह्य मधुवाता इत्यनेन तृचेनावेक्षते । अवलोकयतीत्यर्थः । तत ' सव्ये पाणौ कृत्वा ' इति केचित् पठन्ति । तेषां सव्य एव पाणौ स्था- पयित्वोत्तरं कर्म भवति । ये पुनर्न पठन्ति तेषां भूमौ स्थापनं सव्ये पाणौ वेत्येवमनियमः । अवेक्ष्यानामिकया चाङ्गुष्ठेन च त्रिः प्रदक्षिणमालो- डयति । तत्र अनामिकायां विवदन्ते । केचिन्मध्यमां मन्यन्ते केचिदु- पकनिष्ठिकाम् । ननु चोभयोरपि नामनी विद्येते । तत्र ये मध्यमामनामिकां मन्यन्ते ते ब्रुवते देशेनास्याः समाख्यानमिति सा अनामिकेति । ये ब्रुवते उपकनिष्ठिकेति कनिष्ठिकाया अस्याः समाख्यानमिति कृत्वा । तस्मात् तस्या अनामिकेति । आगमात्तु विशेष उपलभ्यते । उभयथोपपत्तेः । आलोड्य वसवस्त्वेत्यनेन मन्त्रेण पुरस्तान्निमाष्टि । लेपमपनयतीत्यर्थः । एवमुत्तरैर्मन्त्रैः ।। १५ । I 5 रुद्रास्त्वा त्रैष्टुभेन छन्दसा भक्षयन्तु' इति दक्षिणतः । आदित्यास्त्वा जागतेन छन्दसा भक्षयन्तु इति पश्चात् । 'विश्वे त्वा देवा आनुष्टुभेन छन्दसा भक्षयन्तु ' इत्युत्तरतः । भूतेभ्यस्त्वा ' इति मध्यात् विरुद्गृह्य ॥ १६ ॥ 'प्रतिदिशं लेपमपनयति । भूतेभ्यस्त्वेति मध्यात् विरुद्गृह्णाति । ऊर्ध्वमुत्क्षिपत्यनेन मन्त्रेण ॥ १६ ॥ I सम्यक्---B. 4. कथं - A, C. missing folio.

  • एवमेव नियम: - A, C.

3 तेन -A, C. 5 Here begins the next folio in D, after the 6 प्रादेशलेपानपनयति - A, C, D.