सामग्री पर जाएँ

पृष्ठम्:Ashwalayana gruhya sutra bhashyam.pdf/१६९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१३० आश्वलायनगृह्यसूत्रभाष्यम् पादयोः प्रक्षालनं विधीयते ॥ १० ॥ कथं पुनस्तत्-- दक्षिणमग्रे ब्राह्मणाय प्रयच्छेत् ॥ ११ ॥ या ब्राह्मणः प्रक्षालयिता भवति तदा दक्षिणमग्रे प्रयच्छति ||११|| " सव्यं शूद्राय ॥ १२ ॥ यदा शूद्रः तदा सव्यमग्रे प्रयच्छति । तत्र संशयः । किं प्रक्षालयिता यो नियम्यते आहोस्वित् क्रम इति । किंचातः । यदि तावत् प्रक्षा- लयितुर्नियमः क्षत्रियवैश्ययोरप्रसङ्गः । अथ पुनः पादयोः क्रमो नियम्यते ब्राह्मणशूद्रो प्रतीतौ क्षत्रियवैश्ययोरप्रवृत्तिः । अनियमश्च । किं पुनरत्न न्याय्यं स्यात् । क्रमो नियम्यते । कथमेतद् गम्यते । अग्रग्रहणात् । अत्नाग्र- ग्रहणं न कर्तव्यम् । उपदेशादेव य उच्यते सोऽग्रे भवति । अग्रे प्रयच्छेदि- त्युक्ते ज्ञापितं भवति पश्चात् सव्यमिति । तस्मात् पादयोः क्रम इत्येतत् सिद्धं भवति ।। १२ ।। प्रक्षालितपादोऽर्घ्यमञ्जलिना प्रतिगृह्य । अथाचमनीये- नाचामति' ' अमृतोपस्तरणमसि' ( तै० आ० १०. ३२. १ ) इति ॥ १३ ॥ पादौ प्रक्षाल्यार्घ्यमञ्जलिना प्रतिगृह्णति । प्रतिगृह्याचमनीये - नाचामति' अमृतोपस्तरणमसीत्यनेन मन्त्रेण । तत्र प्रक्षालितपादग्रहणं न कर्तव्यम् । कस्मात् । क्रमसिद्धत्वात् । तत्तु क्रियते आनन्तर्यार्थम् । अन्वाचा- 1 क्रमनियम:--A, C, D. 2 3 प्रसङ्ग: --- A, C, D. मति — A, C, D. 4 अनन्तरार्थम् -- A, C, D .