सामग्री पर जाएँ

पृष्ठम्:Ashwalayana gruhya sutra bhashyam.pdf/१६८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रथमोऽध्यायः १२६ तत्त्वाह- विष्टरः पाद्यमर्घ्यमाचमनीयं मधुपर्को गौरित्येतेषां निस्त्रिरेकैकं वेदयन्ते ॥ ७ ॥ तत्र विष्टर इत्यासनमुच्यते । पाद्यमिति । पादार्थमुदकं पाद्यम् । तथार्घार्थमुदकमर्घ्यम् । एवमाचमनार्थमुदकमाचमनीयम् । मधुपर्क उक्तः प्राक् । गौरिति पशुद्रव्यं किंचिन्निर्दिश्यते । तेषां विष्टरादीनामेकैकस्य द्रव्यस्य विविनिवेदनं कर्तव्यम् । तत्रैतेषामिति न वक्तव्यम् । कस्मात् । अधिकृतत्वात् । उच्यते । नियमार्थमारभ्यते । इतरथा ह्येवमादीनां निवेदनं क्रियते । तत्र दोषः स्यात् । भोजनादीनामपि विर्निवेदनं प्राप्नोति । तन्निवृत्त्यर्थं नियम आरभ्यते । अस्ति पुनर्भोजनप्रवृत्तिः । अस्तीति ब्रूमः । । 2 तदुत्तरत्व वक्ष्यामः । ' नामांसो मधुपर्क : ' ( १ २४ २८ ) इत्येतस्मिन् प्रदेशे ॥ ७ ॥ । अहं वर्ष्म सजातानां विद्युतामिव सूर्यः । इदं तदधितिष्ठामि यो मा कश्चाभिदासति ॥ ' इत्युदगग्रे विष्टर उपविशेत् ॥ ८ ॥ अहं वर्ष्म सजातानामित्यनेन मन्त्रेणोदगग्रे विष्टर उपविशेत् ॥ ८ ॥ आक्रम्य वा ॥ ६ ॥ पद्भ्यामाक्रमणं करोति । तेनाक्रमणस्यासनस्य च विकल्पः ॥ ६ ॥ पादौ प्रक्षालापयीत ॥ १० ॥ 1 एकवशवर्तित्वात् -- B; वाच :-D. लयीत - A, C, D. I 2 उच्यते -- A, C. 3 प्रक्षा-