सामग्री पर जाएँ

पृष्ठम्:Ashwalayana gruhya sutra bhashyam.pdf/१६७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२८ आश्वलायनगृह्यसूत्रभाष्यम् पदेशः क्रियते । कथं पुनरतुल्यत्वमिति चेत् स्नातकाय तावत् तदहरेवा- भ्यागताय देयः । कथं गम्यते । उपस्थितवचनात् । ' यत्रैनं पूजयिष्यन्तो भवन्ति ' ( ३. ८. २४) इति शास्त्रोपदेशाच्च मधुपर्को दातव्य इत्येतच्चोदितं भवति । राज्ञे पुनरहरहरुपस्थिताय देयः । आचार्यादीनां प्रतिसंवत्सरो- पेताना' देय इति । कथं पुनरेतद् गम्यते यथा एते विशेषा भवन्तीति । स्नातकाय तावत् गम्यते तस्मिन्नेवाहन्यागताय देय इति यदाचार्यादीनां पुनर्ग्रहणं करोति । स्नातकवचनेनाव सिद्धानामविशेषाच्च राज्ञोऽहरहर्दानं भवति । आचार्यादीनां च शास्त्रान्तरदर्शनात् प्रतिसंवत्सरं भवति ॥ ४ ॥ तत्राप्रतीतपदार्थत्वाल्लोके मधुपर्कस्य स्वयमेव विदधाति - दधनि मध्वानीय ॥ ५ ॥ दधनि मधु आनयति । आनयतिरत्र सेचनकर्मा । निषिञ्चती- त्येतदुक्तं भवति ।। ५ ।। सर्पिर्वा मध्वलाभे ॥ ६ ॥ सर्पिर्वा निषिञ्चति मध्वलाभे । सपिवेति सिद्धे मध्वलाभवचन- मपार्थकम् । मध्वलाभवचनं क्रियते । कथमलाभे वाचनिक: प्रतिनिधि: स्यादिति । इतरथा हि सामान्यात् प्रतिनिधिरिति कृत्वान्यत् किंचित् प्रतिनिधीयेत । तन्निवृत्त्यर्थं वचनमारभ्यते । तत्र मधुपर्कस्य दानं वक्तव्यम् । प्रतिग्रहश्च* । तत्र दानं प्रथमं विधीयते । क्रमप्रवृत्तत्वात् । युगपच्चाशक्यत्वादल्पत्वाच्चाधिकृतत्वाच्च दानस्य । कल्पतुल्यत्वाच्च 11 & 11 1 प्रतिसंवत्सरोषितानां A, C, D. 3 विधीयेत – A, C, D. 4 प्रतिग्रहणं च - B. A, C. - 2 'एव—added in B. 5 प्रथमं omitted in