प्रथमोऽध्याय. ११६. तत्र ब्रह्मणः प्रथमवरणमुपदिश्यते । पश्चाद्धोतुरथाध्वर्योरथोद्गा- तुरिति । ब्रह्माणमेवेत्येवकारः किमर्थः । अवधारणार्थः । किमर्थमव - धारयति । ब्रह्मण: प्रथमं वरणं यथा स्यादिति । यद्येवं नार्थ एवकारेण । उपदेशादेव ब्रह्मण: प्राथम्यं सिध्यति । एवं तहि नियमार्थ एवकारः । ब्रह्मण एव प्रथमं वरणं स्यादिति । एवं नियमं कुर्वन् ज्ञापयति होत्रादी- नामनियतः क्रमो भवतीति । तस्मादेवकारः कर्तव्यः ॥ ३ ॥ सर्वान् वा येहीका हैर्याजयन्ति ॥ ४ ॥ l सर्वान् वा वृणीते येऽही कार्याजयन्ति । तत्राही नैकाग्रहण- मपार्थकम् । सर्वान् वेत्युच्यमाने शमित्रादीनामपि वरणं प्रसज्येत । तस्मात् कर्तव्यमेव । न प्राप्नोति । कस्मात् । ऋत्विगधिकारान भविष्यति । उच्यते । येषां चत्वार ऋत्विजस्तेषां भवत्येतत् प्रयोजनम् । कथम् । सर्वान् वा कर्तृनित्यध्याहारः कर्तव्यो भवति । तस्मात् ऋत्विक्शब्दस्याध्याहारो न शक्यते कर्तुम् । कस्मात् । वरणस्याम्नातत्वात् ऋत्विजां सर्वेषाम् । तेन कर्तॄणामिति वाक्याध्याहारः क्रियते । एवं सति शमित्रादीनां प्रसज्येत । तन्निवृत्त्यर्थ महीने का हग्रहणं कर्तव्यम् । येषां पुनरय मृत्विक्शब्दः सर्वेषु कर्तृषु वर्तते तेषामेतदतिरिच्यते । उच्यते । तेषामपि तदेव प्रयोजनम् । ननु ऋत्विगधिकारान्न भविष्यतीत्युच्यते । एवमपि स्यात् । कस्मात् । अनृत्विग्वरणदर्शनात् । के पुनरनृत्विजो त्रियन्ते । चमसाध्वर्यवः । उच्यते । अन्येषामविधानान्न भविष्यति । एवमपि चमसाध्वर्यूणां च वचनेनाम्नातम् । अन्येषामपि सामान्यावरण- प्रसङ्गः स्यात् । किं सामान्यम् । ' आपो में होत्राशंसिन्य इति होत्नकान् ' ( १. २३. ११ ) इति वचनाद् यथा होतृपुरुषेभ्यो ऽतिरिक्ता अशंसि- कथम् - added in B.. 2 स्यादित्येवमनियम - A, C, D. 4 व्यतिरिच्यते - D. 3 इत्ययं वेत्यध्याहारः कर्तव्यो भवति - - 4, C. 5 बृणीयन्ते यथा -- A, C, D.
पृष्ठम्:Ashwalayana gruhya sutra bhashyam.pdf/१५८
दिखावट