सामग्री पर जाएँ

पृष्ठम्:Ashwalayana gruhya sutra bhashyam.pdf/१५७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११८ आश्वलायनगृह्यसूत्रभाष्यम ऋत्विजो वृणीतेऽन्यूनानतिरिक्ताङ्गान् पितृतश्च' इति यथोक्तं पुरस्तात् ॥ १ ॥ 'ये मातृतः ऋत्विजो वृणीते संभजते । कर्मार्थ परिग्रहं करोतीत्येतदुक्तं भवति । अन्यूनान् वृणीतेऽनतिरिक्तांश्च । किं षोडशभ्योऽन्यूनान् अनति- रिक्तांश्च । नेत्युच्यते । प्रमाणतः परिमाणतश्च । तत्र प्रमाणतो नाति- दीर्घान् नातिह्रस्वान् । परिमाणतश्च पञ्चाङगुलय इति । षडङगुल- यस्त्यङ्गुलयो वा न भवन्ति । एवं शास्त्रोक्तप्रमाणात् परिमाणाच्च अन्यूनानतिरिक्ताश्च भवन्ति । ये मातृतः पितृतश्च' (आ० श्र० ६. ३. २० ) इति यथाव्याख्यातं पुरस्तात् । तादृशैऋत्विग्भिर्भवितव्यम् ।। १॥ 1 युवान' ऋत्विजो, वृणीत इत्येके || २ || एके आचार्या युवानो वरयितव्या इति मन्यन्ते । पञ्चधा किल वयश्चिन्त्यते । बालो युवा मध्यो वृद्धः स्थविर इति । तत्र ये युवानस्तेषां वरणमिच्छन्ति । अन्ये पुनः कर्मसमर्थानां वरणमिच्छन्ति । अर्थात्वंग- धिकारेऽनुवर्तमाने ऋत्विग्ग्रहणं किमर्थम् । अनृत्विजां युवत्वं मा भूदिति । वरणसामान्यादनृत्विजामप्ययं गुण: प्रसज्येत । तन्निवृत्त्यर्थमृत्विग्ग्रहणं क्रियते । के पुनस्ते । चमसाध्वर्यवः ।। २ ।। ब्रह्माणमेव प्रथमं वृणीतेऽथ होतारमथाध्वर्युमथोद्गातारम् 11 3 11 4 1 पञ्च -- omitted in B. 2 All the MSS. read the word this way although it is un - Paninian (cf. Panini, vi. 4. 133 ) and it is corrected as त्युच्यते-- B.

in all printed editions of AGS.

4 Omitted in A, C, D.

  • वयोऽस्ती-