११६ आश्वलायनगृह्यसूत्रभाष्यम् ब्रह्मचारिणं । परिषिञ्चन्तमाचार्यस्त्रिरेव' वाचयति सुश्रव इत्येतन्मन्त्रम् । एतावदुपनयनं कर्म : ।। १६ ।। एतेन वापनादि परिदानान्तं व्रतादेशनं व्याख्यातम् ॥२०॥ ( एतेनेति व्यपदेशः क्रियते । वापनादि परिदानान्तं यद् व्याख्यातं तद् व्रतादेशने कर्तव्यमित्यर्थः । वापनादिग्रहणमलंकारनिवृत्त्यर्थम् । काय स्वा परिददामि (१२० ६ ) इत्येतत् परिदानम् । परिदानान्त- । ग्रहणमुत्तरकर्मनिवृत्त्यर्थम् ।। २० ।। . इत्यनुपेतपूर्वस्य ॥ २१ ॥ इत्यनुपेतपूर्वस्योपनयनं भवति । किमर्थं पुनरिदमारभ्यते । उत्तर- विवक्षया । ननु विशेषा उच्यमाना यस्यैवोपदिश्यन्ते तस्यैव भविष्यन्ति । तस्मादिदमनारब्धव्यम् । इदं त्वारभ्यते । वेदान्तरं उपेतपूर्वो यो वेदान्तरमध्येतुमिच्छति तस्य परिसमाप्तब्रह्मचर्यस्य वेदान्तरे" उपनीय - मानस्य कथमनुपेतपूर्वंवत्' स्यादित्येतदर्थमारभ्यते । यस्तु ब्रह्मचर्यादन- न्तरं ब्रह्मचर्यं करोति स उपेतपूर्वो भवति ।। २१ ।। अथोपेतपूर्वस्य ॥ २२ ॥ यं विशेषं वक्ष्यामः स उपेतपूर्वस्य भवति ।। २२ ॥ कृताकृतं केशवपनम् ॥ २३ ॥ कृताकृतमिति । भवति वा न वेत्युक्तं भवति ॥ २३ ॥ यतधर्म:- B. 3 एतावानुपन- 5 Omitted in 1 Omitted in A, C, D. 2 एवं A, C, D, 4 परिदानग्रहणम् – A, C, D. 6 वेदान्तरम् – A, C, D . 7 अनुपेतपूर्व: A, C, D. A, C, D. Bandbandy
पृष्ठम्:Ashwalayana gruhya sutra bhashyam.pdf/१५५
दिखावट