।। ४ ।। प्रथमोऽध्यायः तेजसा ह्येवात्मानं समनक्तीति विज्ञायते ॥ ४ ॥ १०७ अथ श्रुत्याकर्षणं कस्मात् क्रियते । कथमग्नेरुपस्पर्शनं त्रिः क्रियेतेति 'मयि मेधां मयि प्रजां मय्यग्निस्तेजो दधातु । मयि मेधां मयि प्रजां मयीन्द्र इन्द्रियं दधातु ॥ मयि मेधां मयि प्रजां मयि सूर्यो भ्राजो दधातु । यत्ते अग्ने तेजस्तेनाहं तेजस्वी भूयासम् || यत्ते अग्ने वर्चस्तेनाहं वर्चस्वी भूयासम् । यत्ते अग्ने हरस्तेनाहं हरस्वी भूयासम् ॥ १ इत्युपस्थाय जान्वाच्योपसंगृह्य ब्रूयात् ।। ५ ।। मयि मेधामिति मन्त्रेणोपस्थाय जानु पातयित्वा उपसंग्रहणं करोति । उपसंग्रह्णमित्याचार्यस्य पादौ गृह्णाति । स्पृशति वा । एतदुप- संग्रहणमित्युच्यते । एवमुपसंगृह्य ब्रूयात् ।। ५ ।। किमिति ब्रूयात् -- $ अधीहि भोः सावित्री भो३ अनुब्रू ३हि' इति ॥ ६ ॥ एवमाचार्यं ब्रूते ।। ६ । तस्य वाससा पाणिभ्यां च पाणी संगृह्य सावित्रीमन्वाह पच्छोऽर्धशः सर्वाम् ॥ ७ ॥ तस्य ब्रह्मचारिणो वाससा पाणिभ्यां च पाणी संगृह्णाति । कतरेण वाससा पाणी संगृह्णातीत्येतत् संदिह्यते । ब्रवीति । यदुत्तरं दास 3. जानुं – A, C, D. -
पृष्ठम्:Ashwalayana gruhya sutra bhashyam.pdf/१४६
दिखावट