सामग्री पर जाएँ

पृष्ठम्:Ashwalayana gruhya sutra bhashyam.pdf/१४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१०६ आश्वलायनगृह्यसूत्रभाष्यम् मन्त्रेण हैके ॥ १ ॥ एके आचार्याः समिदाधानं मन्त्रेणेच्छन्ति । तत्त्रायं हकार : अभि- मतपक्षप्रदर्शनार्थः । पूर्वस्य पक्षस्य श्रुतिसंयोगाद् बलीयस्त्वं दृष्ट्वाचार्येण हकार : प्रयुज्यते । तस्मात् तुल्यबलीयस्त्वं भवति । तुल्यवलयोश्च' विकल्प उपपद्यते ॥ १ ॥ ' अग्नये समिधमाहार्ष बृहते जातवेदसे । तया त्वमग्ने वर्धस्व समिधा ब्रह्मणा वयं स्वाहा' ॥ इति ॥ २ ॥ अग्नये समिधमित्यनेन मन्त्रेण समिदाधीयते ।। २ ।। स समिधमाधायाग्निमुपस्पृश्य मुखं संमाष्टि त्रिः 'तेजसा मा समनज्मि' इति ॥ ३ ॥ । समिधाधाय स ब्रह्मचारी अग्निमुपस्पृशति । अग्निमुपस्पृश्य सुखं संमाष्टि त्रिः । तेजसा मा समनज्मीत्यनेन मन्त्रेण । तत्र स इत्यनर्थकः । कस्मात् । प्रकृतत्वात् । तत्त्वारभ्यते नियमार्थम् । कथमन्यत्र समिदाधाने संमार्जनं न प्रसज्येतेति । ' समिधौ वा जपेद्वा ' ( ३. ६. ७ ) इत्यत्र मा भूदिति । समिद्ग्रहणमपार्थकम् । प्रकृतत्वात् । तत् क्रियते । उभयोरपि पक्षयोर्यथा स्यादिति । तदेतन्नोपपद्यते । कस्मात् । तत्र समिद्ग्रहणस्य प्रत्यक्षोपदेशात् । तत्तु क्रियते । कथमयं विधिः कृत्स्न उभयत्र स्यादिति ।

  • 4

। आधायग्रहणं किमर्थं क्रियते । ' सायं प्रातः समिधमादध्यात् ' ( १ . २२. ५) इत्यत्रापि यथा स्यादुत्तरतोऽपि विधिरिति ॥ ३ ॥ 1 नियतपक्ष -- B. 4 तत्र -- added in B. 2 तुल्यबलीयसोश्च – A, C, D. 5 आधानग्रहणं A, C, D. Halv 2 तल — B. 8 स्यादिति उत्तरो -- B.