प्रथमोऽध्यायः १०५ तस्याध्यंसौ पाणी कृत्वा हृदयदेशमालभेतोत्तरेण ॥ ८ ॥ तस्य ब्रह्मचारिण: । अध्यंसौ । अधीत्युपरिभावे । उपरि पाणी अंसयोर्हृत्वा हृदयदेशमालभेत उत्तरेणार्धर्चेन । कस्योत्तरेण । या प्रकृता ऋक् । आलभेतेति स्पृशेदित्युक्तं भवति ।। ८ ।। अग्नि परिमुह्य ब्रह्मचारी तूष्णों समिधमादध्यात् ॥ ६ ॥ तत्र परिसमूहन विधानमपार्थकम् । कस्मात् । प्रकृतत्वादग्नेः । सर्वथा च संस्कारार्थं परिसमूहनं क्रियते । संस्कृतश्चासावग्निः । तेन अग्नि परिसमुह्येति शक्यमनारब्धुम् । न त्विदमारभ्यमाणमिह प्रयोजनं भवति । अन्यार्थमारभ्यते । एवं चेत् कस्मात् तत्रैव नारभ्येत यत्र प्रयोजयति । प्रकरणमुपजीवन्निहाचार्य आरभते । प्रथमं चेदं समिदाधानम् । तस्मादि- हैवारब्धव्यम् । क्व पुनः प्रयोजयति । ' सायं प्रातः समिधमादध्यात् ' ( १. २२. ५ ) इत्यत्न प्रयोजयति । इह ब्रह्मचारिग्रह्णमाचार्यनिवृत्त्यर्थम् । अतश्च ज्ञापितं भवत्याचार्यस्यैव पूर्वे मन्त्रा अभूवन्निति । ॥ । तूष्णीं वै प्राजापत्यं प्राजापत्यो ब्रह्मचारी भवतीति विज्ञायते ॥ १० ॥ } विज्ञायत इति ब्राह्मणम् । यस्मात् प्राजापत्यो ब्रह्मचारी तस्मात् तूष्णीं समिधमभ्यादधाति । कथं पुनः प्राजापत्यो ब्रह्मचारी भवतीति । प्रजापतये यस्मादयं परिदत्तः ' कस्त्वा क उपनयते काय त्वा परिददामि इत्येवं तेन प्राजापत्यः संवृत्तः । सर्वत्र प्राजापत्यास्वाहृतिषु यस्मात् तूष्णीमेवोपदेशः तेनोपपद्यते प्राजापत्यो ब्रह्मचारीति ।। १० ।। इति प्रथमे विशतितमा कण्डिका A, C, D. 1. संस्कारार्थ : A, C, D. 2 इत्येवमन्तेन – A, C, D. 4 भवतीति - - added in A, C, D. 'यस्य-
पृष्ठम्:Ashwalayana gruhya sutra bhashyam.pdf/१४४
दिखावट