सामग्री पर जाएँ

पृष्ठम्:Ashwalayana gruhya sutra bhashyam.pdf/१४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१०४ आश्वलायनगृह्यसूत्रभाष्यम् त्येतावदाचार्यस्य भवति । अथ स मा मृतेति ब्रह्मचारिण: । [स] अनेन मन्त्रेणाचार्यमीक्षत इत्येके संप्रतिपन्नाः । तदेतन्नोपपद्यते । मन्त्रस्यावि- भक्तत्वात् । मन्द्रविभागकारणं न चास्ति । इतिना च मन्त्रविभागः स्यात् । ननु चानितिका अपि मन्त्रा भवन्ति । यथा रथारोहणे चक्रयोरक्षाधिष्ठा- नस्य च । तत्र इतिर्नास्ति । एवमिहापि । तदेतन्नोपपद्यते । कस्मात् । अतुल्यत्वात् । तत्र स एव प्रयोक्ता उभयोर्मन्त्रयोः । इह तु कर्त्तन्तरम् । तस्मादेकमिच्छन्ति । ननु च येऽप्येकमिच्छन्ति तेषामाचार्य ग्रह्णमपार्थकम् । कस्मात् । आचार्यस्यैवायं मन्त्रो भविष्यति यथान्ये मन्त्राः । तत्तु क्रियते । कथम् । ज्ञापकार्थम् । अन्यत्र ईक्षितुर्मन्तो यथा स्यात् । यथा ' भुक्तवन्त- मपामञ्जलिपूर्णमादित्यमुपस्थापयेदिति । त्वं व्रतानाम्' (आ० श्र० ८. १४. ६ ) इत्यत्र । तस्मादिहाचार्यग्रहणं कर्तव्यम् । आचार्यस्यैवायं मन्त्रो भवतीति साधितम् ॥ ५ ॥ I atra ब्रह्मचार्यसि । प्राणस्य ब्रह्मचार्यसि । कस्त्वा कमु- पनयते । काय त्वा परिददामि इति ॥ ६ ॥ } कस्य ब्रह्मचार्यसीत्ययं चाप्याचार्यस्यैव भवति मन्त्रः । कस्मात् । अधिकारात् । प्रदानसंयोगाच्च । प्रजापतयेऽसौ ब्रह्मचारी प्रदीयते । प्रजापतिना चोपनीतोऽसीत्येतदुक्तं भवति ।। ६ ।। i युवा सुवासाः परिवीत आगात् ' (ऋ० सं० ३.८.४) इत्यर्धर्चेनेनं प्रदक्षिणमावर्तयेत् ॥ ७ ॥ युवा सुवासा इत्यर्धेन ब्रह्मचारिणं प्रदक्षिणमावर्तयति । ननु एनमिति प्राप्नोति । कस्मात् । अधिकृतत्वात् । तत्तूच्यते । कथमा- वर्तयितुर्मन्त्रः स्यान्नावर्त्यमानो ब्रूयात् कुमारः ॥ ७ ॥ 2 Portion from here up to मन्त्रा 2 इतिकरणा दृष्टा मन्त्रा भवन्ति — added in B. Omitted in A, C, D. A, C, D. भवन्ति is omitted in B. 5

  • अपि added in

एनमित्यर्थतः --- D.