सामग्री पर जाएँ

पृष्ठम्:Ashwalayana gruhya sutra bhashyam.pdf/१४२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रथमोऽध्यायः १०३ सवितुर्वृणीमहे' (ऋ० सं० ५. ८२. १) इति पूर्णेनास्य पूर्ण- मवक्षारयति । आसिच्या 'देवस्य त्वा सवितुः प्रसवेऽश्विनो- बहुभ्यां पूष्णो हस्ताभ्याम् - - हस्तं गृह्णामि - असौ ' इति तस्य पाणिना पाणि साङगुष्ठं गृह्णीयात् ॥ २ ॥ समन्वारब्धे जुहोति । को जुहोति । आचार्यः । कस्मात् । समान- कर्तृकत्वनिर्देशात् । कश्च समन्वारभते । कुमारः । कस्मात् | अधिकृत- त्वात् । हुत्वा उत्तरतोऽग्नेः प्राङ्मुखोऽवतिष्ठते आचार्य: । पुरस्तादा- चार्यस्य प्रत्यङ्मुखोऽवतिष्ठते कुमारः । स्थित्वापामञ्जली पूरयति आचार्य आत्मनश्च कुमारस्य च । तत्त्रार्थादाचार्यस्य पूरयत्यन्यः । पूर्णेन चाञ्ज- लिनाचार्यः पूर्णमञ्जलिमवक्षारयति । अवसेचयतीत्यर्थः । कस्य । कुमा- रस्य । आसिच्य देवस्य त्वेत्यनेन मन्त्रेण तस्य कुमारस्य पाणिना पाणि साङ्गुष्ठं गृह्णीयात् । तत्रार्थादासेचने सिद्धे किमर्थमासेचनग्रहणं पुनः क्रियते । तत्त्रेदं प्रयोजनम् । कथमाचार्य आसेचनं कुर्यान्न कुमार इति । असाविति सर्वनामनिर्देशः स्थानविभक्त्यर्थः ॥ २ ॥ 'सविता ते हस्तमग्रभीत् -- असौ' इति द्वितीयम् ॥ ३ ॥ सविता त इत्यनेन मन्त्रेण द्वितीयं पाणि गृह्णाति ॥ ३ ॥ 'अग्निराचार्यस्तव -- असौ ' इति तृतीयम् ॥ ४ ॥ अग्निराचार्य इत्यनेन मन्त्रेण तृतीयं पाणि गृह्णाति ॥ ४ ॥ आदित्यमीक्षयेत- 'देवसवितरेष ते ब्रह्मचारी । तं गोपाय । स मा मृत ' इत्याचार्यः ।। ५ ।। आदित्यमक्षयेत् देव सवितरित्यनेन मन्त्रेण । आचार्य इमं मन्त्रं ब्रूते । तत्रैके द्विधैनं मन्त्रं कुर्वन्ति । देव सवितरेष ते ब्रह्मचारी तं गोपाये-