सामग्री पर जाएँ

पृष्ठम्:Ashwalayana gruhya sutra bhashyam.pdf/१२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८२ आश्वलायनगृह्यसूत्रभाष्यम् अविधायकत्वाल्लिङ्गस्य । तेन कुमार्या अप्युपनयनं प्रसज्येत । तन्निवृत्त्यर्थं कुमारग्रहणं कर्तव्यम् । एवं सत्यस्तु कुमारग्रहणम् । जातग्रहणं न कर्तव्यम् । न ह्यजातस्य कर्म शक्यते कर्तुम् । ब्रवीति । जातग्रहणमप्य- धिकारार्थम् । वक्ष्यति । 'गोदानं षोडशे वर्षे ' (१.१८. १ ) इति । तत्र संशयः । किमुपनयनात् प्रभृति आहोस्विज्जन्मन इति । तद्वचुदा- सार्थम् । कथं जन्मनः षोडशे वर्षे इत्येवमर्थं जातग्रहणं कर्तव्यम् । पुरान्यै- रालम्भात् । पुरा प्रागित्यर्थः । अन्यैरालम्भात् स्पर्शनादित्यर्थः । अथेदं कर्म भवति । अन्यैरित्यन्यग्रहणं क्रियते । अनधिकृतालम्भनप्रतिषेधार्थम् । किं पुनः प्राशयति । सर्पिर्मधुनी हिरण्यनिकाषं च हिरण्येनैव प्राशयेत् । हिरण्येनेत्युच्यते पाणिना मा भूदिति । निकाषमिति निकर्षणम् । निकाष: क्व भवति । शिलायाम् । सर्पिरादीनि द्रव्याणि प्र ते ददामीत्यनेन मन्त्रेण प्राशयति ।। १ ।। I कर्णयोरुपनिधाय मेधाजननं जपति । ' मेधां ते देवः सविता मेधां देवी सरस्वती । मेधां ते अश्विनौ देवावाधत्तां पुष्करस्रजौ ' ॥ इति ॥ २ ॥ कर्णयोरुपनिधाय मेधां त इत्येतन्मन्त्रं जपति । तत्रोपनिधायेति न वक्तव्यम् । कर्णयोर्जंपतीत्युच्यमाने स्वयमेवोपनिधाय जपो भविष्यति । तत्वेदं प्रयोजनम् । हिरण्यमुपनिधायेति । एतदुक्तं भवति । कर्णयो- जपतीति मुखस्याप्युपनिधानं भवति । तेनोभावप्युपनिधाय कर्णयोर्जपति । तत्त्र तु सकृन्मन्त्र उक्त आवर्तत इति । सकृन्मन्तो भवति । कुतः । मन्त्रलिङ्गदर्शनात् । एतद् द्विवचनेन मन्त्रलिङ्गं' मन्त्रगतेन । पर्यायशस्तूप- निधानं भवति ॥ २ ॥ 1 मन्त्रलिङ्गममन्त्रकेण —A, C.