सामग्री पर जाएँ

पृष्ठम्:Ashwalayana gruhya sutra bhashyam.pdf/१२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रथमोऽध्यायः ऋषभो दक्षिणा ॥ ८ ॥ 59 ऋषभो दक्षिणा भवति । तत्र कः कर्ता । स्वयमेव । कुतः । मन्त्रलिङ्गदर्शनात् । किं लिङ्गस् । ' अस्यै मे पुत्रकामायै (ऋ. खि. । ४. १३. १ ) इति । ननु च दक्षिणादानं नोपपद्यते । ब्रह्मणे दास्यति । ब्रह्मणोऽभावे तत्र ये ब्राह्मणाः संनिहितास्तेभ्यो भविष्यति । कर्माङ्गत्वाद् दक्षिणानाम् ॥ ८ ॥ इति प्रथम चतुर्दशी कण्डिका कुमारं जातं पुरान्यैरालम्भात् सर्पिर्मधुनी हिरण्यनिकाषं हिरण्येन प्राशयेत्-- तु 'प्र ते ददामि मधुनो घृतस्य वेदं सवित्रा प्रसूतं मघोनाम् । आयुष्मान् गुप्तो देवताभिः शतं जीव शरदो लोके अस्मिन् ' ॥ इति ॥ १ ॥ प्र ते ददामीत्यनेन मन्त्रेण कुमारस्य जातस्यायं संस्कारो भवति । तल कुमारग्रहणं न कर्तव्यम् । जातमित्येव वक्तव्यम् । एवमुच्यमाने दोष: स्यात् । कुमार्या अपि प्रसज्येत । न भविष्यति । कस्मात् । वक्ष्यत्यावृतैव कुमार्यै इति । नेत्युच्यते । प्रवासादागत्य यद्विहितं तदावृद् भवति । इदं कर्म प्राप्नुयात् । तस्मात् कुमारग्रहणं कर्तव्यं कुमारोनिवृत्त्यर्थम् । येषां पुनस्तदुभयार्थं आ एकस्मात् कर्मणः आवृता भवतीति तेषां कुमार- ग्रहणं किमर्थम् । अधिकारार्थम् । ' अष्टमे वर्षे ब्राह्मणमुपनयेत् ' ( १. १. १ ) इत्यत्र कथं कुमारस्यैव स्यान्न कुमार्या इति । ननु तत्रापि पुंलिङ्गोपदेशात् कुमार्या न भविष्यति । नेत्युच्यते । लिङ्ग- मविवक्षितम् । जातिविवक्षायां च लिङ्गमप्रमाणम् । कस्मात् । । । 1 न च---C. " इह - A, C, D... }