सामग्री पर जाएँ

पृष्ठम्:Ashwalayana gruhya sutra bhashyam.pdf/११९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

n आश्वलायनगृह्यसूत्रभाष्यम् युग्मेनेति समेत्यर्थः । केन युग्मेन । शलाटुग्लप्सेनेति । शलाटु- रित्यपक्वानां फलानामाख्या । ग्लप्स : स्तबक उच्यते पूग इति च । संघात इत्यर्थः । वेण्या च शलल्या । वेण्या, एता शुक्लेत्यर्थः । वीण्येतानि यस्याः सेयं श्रेणी । त्रिशुक्लेत्यर्थः । त्रिभिश्च कुशपिञ्जलैः कुशतरुण कै-- रित्यर्थः । एवमेतैर्द्रव्यैरूर्व सीमन्तं व्यूहति । भूर्भुवःस्वरोमिति । तिर्व्यूहति नाना करोति । चतुर्वा व्यूहति । व्यूहने सर्वत्र मन्त्रः ॥ ४ ॥ aterगाथिनौ संशास्ति सोमं राजानं संगायेतामिति ॥ ५॥ वीणागाथिनौ संशास्ति । किमिति । सोमं राजानं संगायेतामिति । वीणा च गाथा च वीणागाथे ययोः स्तः ताविमौ वीणागाथिनौ । तौ संशास्ति । अनेन प्रेषेण सोमं राजानं संगायतामिति ॥ ५ ॥ का पुनरसौ गाथेति -- 'सोमो नो राजावतु मानुषीः प्रजा निविष्टचका असो' इति यां नदीमुपवसिता भवन्ति ॥ ६ ॥ एतां गाथां तौ गायतः । निविष्टचक्रा असावित्यस्य स्थाने पदस्या- मन्त्रितया विभक्त्या नद्या नामादिशेत् यस्याः समीपे वसन्ति यथा -- निविष्टचक्रा यमुने इति ॥ ६ ॥ ब्राह्मण्यश्च वृद्धा जीवपत्न्यो जीवप्रजा यद्यदुपदिशेयु- स्तत्तत् कुर्युः ॥ ७ ॥ तत्तच्च कर्तव्यम् । अत्र स्विष्टकृत्कालः प्रेषमुक्त्वा भवति ॥ ७ ॥ 1 एनी - A, C, D एत meaning white takes all the three genders. 2 असाविमा नदीमुपसिथा - A, C, D.. जीवपत्यो. 3 MSS. read