७८ आश्वलायनगृह्यसूत्रभाष्यम् इत्येवमेके पठन्ति । कस्मात् । इतरथा हि प्रतिगर्भमिदं कर्मावर्तेत । न भविष्यति । सकृदेवेदं कर्म चोद्यते । यदि सकृच्चोदितं न पुनः पुनरावर्तते । एवं सति पुंसवनादीनामपि सकृत् क्रिया प्राप्नोति । न चेष्यते । तेन यथा तेषां प्रतिगर्भमभ्यावृत्तिः एवमिहापि स्यात् । तस्मात् प्रथमगर्भ इति पठितव्यम् । अथापि नारब्धव्यम् । किं कारणम् । पूर्वस्य कर्मण: प्रति- गर्भमभ्यावृत्तिर्युक्ता । कस्मात् । गर्भसंस्कारत्वात् । अस्य तु न भविष्यति । अगर्भसंस्कारत्वात् । तस्मान्न पठितव्यम् । नेत्युच्यते । इहापि गर्भ- संस्कारोऽस्ति । कुतः । मन्त्रलिङ्गदर्शनात् । ' एवं तं गर्भमाधेहि दशमे मासि सूतवे' इति (ऋ. खि. ४. १३. २ ) । तेनास्यापि कर्मणोऽभ्यावृत्तिः प्रतिगर्भं प्राप्नोति । अतश्च प्राप्नोति - संख्यातत्वात् संस्काराणाम् । येनाष्टाचत्वारिंशत् संस्कारा विहिताः तेन क्रिया प्राप्नोति । तथापि न कर्तव्यम् । कस्मात् । गर्भसंस्कारस्य गुणभूतत्वात् । सीमन्तोन्नयनमत्र प्रधानम् । तेन गुणभूतो गर्भसंस्कारः प्रधानभूतमावर्तयितुं नोत्सहते । कथं पुनरेतद् गम्यते यथा सीमन्तोन्नयनं प्रधानमिति । तत्समाख्यानात् । सीमन्तोन्नयनस्य प्राधान्यान्नाभ्यावृत्तिः । ननु हीनसंस्कारा गर्भा द्वितीया- दयो भवन्ति । न भविष्यन्ति । कुतः । आधारस्य संस्कृतत्वात् । तस्मात् प्रथमगर्भादन्यत्र न प्राप्नोति । पुंसवनस्य तु गर्भसंस्कारत्वात् प्रतिगर्भस्या- वृत्तिः । सीमन्तोन्नयनस्य प्राधान्यादनभ्यावृत्तिः ॥ १ ॥ ॥ २ ॥ आपूर्यमाणपक्षे यदा पुंसा नक्षत्रेण चन्द्रमा युक्तः स्यात् आपूर्यमाणपक्ष इत्युक्तो विग्रहः । शुक्लपक्ष इत्यर्थः । ननु चापूर्य - माणपक्ष एवेदं कर्म भविष्यतीति । तत्र । विशेषणान्तरमारभ्यते । तेन कृष्णपक्षेऽपि स्यात् । किं पुनस्तद्विशेषणम् । यदा पुंसा नक्षत्रेणेति । 1 आवृत्तिरुक्ता -- A, C.
पृष्ठम्:Ashwalayana gruhya sutra bhashyam.pdf/११७
दिखावट