सामग्री पर जाएँ

पृष्ठम्:Ashwalayana gruhya sutra bhashyam.pdf/११६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रथमोऽध्यायः ७७ एके आचार्याः प्रजावज्जीवपुत्त्राभ्यामृषिभ्यां ' यो मन्त्रौ दृष्टौ ताभ्यामेतत् कर्मेच्छन्ति । तेन नासिकायामोषध्यासेचनं ताभ्यां मन्त्राभ्यां भवतीत्यर्थः । अन्ये पुनस्तूष्णीमिति प्रागुक्तम् ॥ ७ ॥ प्राजापत्यस्य स्थालीपाकस्य हुत्वा हृदयदेशमस्या आलभेत-- 'यत्ते सुसोमे हृदये हितमन्तः प्रजापतौ । मन्येऽहं मां तद्विदां माहं पौत्रमघं नियाम्' इति ॥ ८ ॥ प्राजापत्यस्य स्थालीपाकस्य हुत्वा हृदयदेशमस्या आलभेत । यत्ते सुसीम इत्यनेन मन्त्रेण । तत्रादावेव प्राजापत्यस्य स्थालीपाकस्य निर्वपणं करोति । तत्राज्यभागान्तं कृत्वा पुंसवनं करोति । नस्त:कर्म च । पश्चात् स्थालीपाकस्य जुहोति । कस्मात् । उभयोः कर्मणोः साधारणः स्थालीपाक: । हुत्वा च हृदयदेशमस्या आलभेत । स्पृशेदित्यर्थः । यत्ते सुसीम इत्यनेन मन्त्रेण । स्वयंकर्तृकत्वमस्मिन् कर्मणि भवति । कुतः । मन्त्रलिङ्गदर्शनात् । माहं पौत्रमघं नियामिति ॥ ८ ॥ इति प्रथमे त्रयोदशी कण्डिका चतुर्थे गर्भमा सीमन्तोन्नयनम् ॥ १ ॥ सीमन्तो यस्मिन् कर्मणि उन्नीयते तत् सीमन्तोन्नयनं नाम । तच्च- तुर्थे गर्भमासे भवति । सीमन्तोन्नयनमिति विशेषग्रहणं क्रियते-- प्रथमगर्भ पुनस्ते दशमास्यः । अग्निरैतु प्रथमो देवतानां सोऽस्यै प्रजां मुंचतु मृत्युपाशात् । तदयं राजा वरुणो ऽनुमन्यतां यथेयं स्त्री पौत्रभयं न रोदादिति ॥ 1 ऋषिभ्यां ---omitted in A, C. स्थालीपाक: --C, D. तस्मात् — A, C, D. 4 विशेषणग्रहणं — D, E. 3 कर्मणोरसाधारण-