सामग्री पर जाएँ

पृष्ठम्:Ashwalayana gruhya sutra bhashyam.pdf/१११

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७२ आश्वलायनगृह्यसूत्रभाष्यम् 1 कृत्दा वीवधेऽभ्यादधाति । अभ्याधाय दूताय प्रयच्छेदिति । द्वयोः पिण्डयो- रेकं पिण्डमुद्दिशति । इमं पिण्डं तस्मै बलि हरेति एनं पलाशदूतं ब्रूयात् । द्वितीयं पिण्डं तस्मै दूताय प्रयच्छत्ययं तुभ्यमिति । इमं तस्मै बलि हरेत्ये- तस्मिन् प्रेषे विप्रतिपन्ना आचार्याः । किमिति । तस्मा इत्येतस्य स्थाने केचिद्देवतादेशं कुर्वन्ति केचिन्न कुर्वन्ति । ये तावन्न कुर्वन्ति तेषां किं कारणम् । यत्नाचार्यस्य नामादेशोऽभिप्रेतो भवति तत्रासुष्मा इत्येवमाह । तस्मादत्र नामादेशो न भवति । ये पुनरिहेच्छन्ति तत् कथम् । सर्वनाम- सामान्यात् तस्मा इति ब्रूयात् अभुष्मा इति ब्रूयाद्वा । एवमुभयथा संप्रति- पन्नाः । अकारणमिति तु वचनेनोपदिशन्ति । तदिति विदेशनामानया हेतुमुपदिशन्ति ॥ ३ ॥ प्रतिभयं चेदन्तरा शस्त्रमपि किंचित् ॥ ४ ॥ प्रतिभयं यद्यन्तरा भवति । कस्यान्तरा । कर्तुश्चैत्यस्य च । ततः शस्त्रमपि किंचिद्दातव्यं तस्मै दूताय ॥ ४ ॥ नाव्या चेन्त्रद्यन्तरा प्लवरूपमपि किंचिदनेन तरितव्य- मिति ॥ ५ ॥ नावा नाव्या नदी यद्यन्तरा भवति प्लवरूपमपि किंचिद् दद्यात् । अनेन तरितव्यमित्यनेन मन्त्रेण || ५ || धन्वन्तरियज्ञे ब्रह्माणमग्नि चान्तरा पुरोहितायाने बलि हरेत् ॥ ६ ॥ धन्वन्तरेर्यज्ञो धन्वन्तरियज्ञः । तस्मिन् धन्वन्तरियज्ञे ब्रह्माणमग्नि चान्तरा पुरोहितायाग्रे बलिहरणं कर्तव्यम् । अग्रे प्रथममित्यर्थः । अग्र- ग्रहणान्मन्यामहे पश्चाद्धन्वन्तरये बलिहरणं भवतीति । तत्र तु यदि