सामग्री पर जाएँ

पृष्ठम्:Ashwalayana gruhya sutra bhashyam.pdf/११०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रथमोऽध्यायः ७१ वश्य चैत्यग्रहण कर्तव्यम् । अथ प्राक् स्विष्टकृत इति कस्मात् । प्राक्- स्विष्टकृद्ग्रहणं पूर्वं वलिहरणं कृत्वा पश्चात् स्विष्टकृद्यथा स्यादिति । एवमिहापि बलिहरणस्य प्राक् स्विष्टकृत उपदेशात् अन्यतोर्ध्वं स्विष्टकृतः कर्माणि भवन्तीत्येतत् सिद्धम् । यथा 'हृदयदेशमस्या आलभेत ' (१.१३.८ ) इत्येवंप्रकाराणि इत्येवमेके । नेत्यपरे । प्रागेव स्विष्टकृतः सर्वत्र कर्माणि भवन्ति । नन्वेवं सति वलिहरणे कालोपदेशोऽपार्थकः प्राक् स्विष्टकृत इति । नात्र स्विष्टकृद्ग्रहणं कालोपदेशार्थम् । किं तर्हि । चैत्ययज्ञहोम- प्रदर्शनार्थम् । मा भूद् बलिहरणमात्रमेवैतस्मिन् कर्मणि । अथ यज्ञशब्दाद्धो- मोऽस्त्विति चेत् । तन्न । बलिहरणमात्रेऽपि यज्ञशब्दस्य दृष्टत्वात् । यथा भूतयज्ञ इति । तस्माद्धोमग्रहणार्थं प्राक्स्विष्टकृद्ग्रहणमिति ॥ १ ॥ यद्यु वै विदेशस्थम् ॥ २ ॥ विदेश इति । विप्रकृष्टो देशः विदेश: । यदि विदेशस्थं चैत्यं यजेतेत्येतदुक्तं भवति । उ वा इत्येतौ निपातौ उत्तरेण पक्षेण सह संयुज्यते ॥ २ ॥ यदि विदेशस्थश्चैत्यो भवति कथमसौ यष्टव्य इत्युत्तरत्नोपाय- मारभते---- पलाशदूतेन यत्र वेत्थ वनस्पते' (ऋ० सं० ५. ५. १० ) इत्येतयर्चा द्वौ पिण्डौ कृत्वा बोवधेऽस्याधाय दूताय प्रयच्छेदिमं तस्मै बलि हरेति चैनं ब्रूयादयं तुभ्यमिति यो दूताय ॥ ३ ॥ तु । एतयर्चेति वचनमपार्थंकम् । पादग्रहणादेवैषा भविष्यति । ब्रवीति । नियमार्थं ग्रहणमिति । अन्यत्र तु पादग्रहणे अनेकाप्यग् भवतीत्येतद्दर्शयति - उत्तरत्र प्रयोजनम् अन्ये पुनरेतयर्चेत्यस्या ऋच अभ्यासो यथा स्या- दित्येतदर्थम् । क्व पुनरभ्यास इष्यते । पिण्डग्रहणे वीवधाभ्याधाने प्रति- यच्छति --- इत्येतेषु त्रिषु कर्मस्वभ्यासमिच्छन्ति यत्नकरणेन । द्वौ पिण्डौ