सामग्री पर जाएँ

पृष्ठम्:Ashwalayana gruhya sutra bhashyam.pdf/१०४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रथमोऽध्यायः ६५ किं पुनरत प्रतिपत्तव्यम् । सामान्यान्नियमो भविष्यति । अस्ति पुनः किंचित् सामान्यम् । अस्तीति ब्रूमः । तेन ' अग्नि दूतं वृणीमहे ' इत्यय- मादेशः । कथं गम्यते । सूक्तादी हीनपादग्रहणं दृष्टम् । तेनेहापि ही पादग्रहणसामर्थ्यात् सूक्तादिग्रहणं युक्तम् । ब्रवीति । यद्येवमेवमपि दोष: । द्वे सूक्ते प्राप्नुतः । कस्मात् । ' अग्नि दूतम् ' इति ' द्वाभ्याम् ' इति समान निर्देशात् सूक्ताभ्यामित्येवं गम्यते । नेत्युच्यते । यत्र हि सूक्तादि- ग्रहणे अनेकसूक्तं भवति तत्र यत्नान्तरमारभ्यते । यथा ' उपप्रयन्त इति सूक्ते, इमे विप्रस्येति सूक्ते' (आ० श्र० ४ १३. ७ ) इति सूक्तग्रहणं करोति । तेनेह सत्यपि सूक्तादी ग्रहणे नैव सूक्तग्रहणं प्राप्नोति । यत्नान्त- राभावात् । तस्माद् द्वाभ्यामृग्भ्यामिति प्रत्येतव्यम् । सामान्यात् सूक्तादौ च ग्रहणमिति । सपलाशयार्द्रशाखया पश्चादुपस्पृशेदमुष्मै त्वा जुष्टमुपा- करोमीति । सपलाशयेति किमुक्तं भवति । सपर्णयेत्यर्थः । आर्द्रशाखयेति शुष्कशाखया मा भूदिति । पश्चादिति पृष्ठत इत्यर्थः । उपस्पृशेत् अन्वा- रभेदित्यर्थः । अमुष्मै त्वा जुष्टमुपाकरोमीत्यनेन मन्त्रेण ।। २ ।। व्रीहियवमतीभिरद्भिः पुरस्तात् प्रोक्षति – अमुष्मै त्वा जुष्टं प्रोक्षामीति ॥ ३ ॥ व्रीहियवमतीभिरद्भिः पुरस्ताद् अग्रत इत्यर्थः । प्रोक्षति । अमुष्मै त्वा जुष्टं प्रोक्षामीत्यनेन मन्त्रेण ॥ ३ ॥ तासां पाययित्वा दक्षिणमनु बाहुं शेषं निनयेत् ॥ ४ ॥ तासामपां पाययति । पीतानां यच्छेषं दक्षिणं बाहुमनु निनयति । निषिञ्चतीत्यर्थः । तासामिति ग्रहणमपार्थकम् । कस्मात् । अधि- कृतत्वात् । उच्यते । कर्तव्यमेव । किं कारणम् । कथं नित्यं पायनं स्यात् । I 1 द्वाभ्यां -- repeated in A, C, D. - । 5