सामग्री पर जाएँ

पृष्ठम्:Ashwalayana gruhya sutra bhashyam.pdf/१०३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६४ आश्वलायनगृह्यसूत्रभाष्यम् वक्ष्यन्ते । अथ के काम्या इत्येतस्मिन्नधिकारे । तदुत्तरत्रैव साधयिष्यामः । अथशब्दोऽधिकारार्थः ॥ २ ॥ पशुकल्पविधिमधिकरोति--- उत्तरतोऽग्नेः शामित्रस्यायतनं कृत्वा पाययित्वा पशुमाप्ला- व्य पुरस्तात् प्रत्यङ्मुखमवस्थाप्य 'अग्नि दूतम्' (ऋ० सं० १. १२. १ ) इति द्वाभ्यां हुत्वा सपलाशयाशाखया पश्चादुप- स्पृशेद त्वा जुष्टमुपाकरोमीति ॥ २ ॥ उत्तरतः उदीच्यां दिशि । उत्तरतः कस्य । अग्नेः । शामित्रस्या- यतनं कृत्वा । शामिल नामाग्निः । तस्यायतनं करोति उत्तरतः । आयतनं नाम स्थानम् । पाययित्वा पशुमाप्लावयति | आप्लाव्य च तं पशुं पुरस्तात् प्रत्यङ्मुखमवस्थाप्य । पूर्वस्यां दिशि । कस्य । अग्नेः । प्रत्यङ्मुखमव- स्थाप्य ' अग्नि दूतम् ' इति द्वाभ्यां जुहोति । तत्रैतस्मिन् प्रतीके संशय: । किं कारणम् । अनेकगतत्वात् ' प्रतीकस्य । कथम् । 'अग्नि दूतं वृणीमहे' ( ऋ० सं० १. १२.१ ), 'अग्नि दूतं पुरो दधे ' (० सं० ८. ४४. ३), 'अग्नि दूतं प्रति यदब्रवीतन' (ऋ० सं० १. १६१. ३ ), इत्येवमनेकगतत्वात् प्रतीकस्य संशयः । ब्रवीति । अविशेषवचनाद् आदितः संप्रत्ययो भविष्यति । न प्राप्नोति । कस्मात् । क्वचिद्विशेषोपदेशात् । 'प्र द्यावेति दैर्घतमसम् ' ( आ० श्र० ५.१८. १ ) इति, 'सुसंदृशं त्वेति पक्त्या ' (आ० श्र० २. १९. ३४ ) इति, ' अप्सुमन्तौ गायत्री' (आ० श्र० ६ १३. ४) इति । एवं तर्ह्यन्ततः संप्रत्ययोऽस्तु । तथापि न प्राप्नोति । कस्मात् । विशेष- दर्शनात् । तत्रापि 'प्र द्यावेति वासिष्ठम् ' ( आ० श्री० ८. ८. ४) इति । 1 अनेकऋग्गतत्वात् ---E.