सामग्री पर जाएँ

पृष्ठम्:Ashwalayana gruhya sutra bhashyam.pdf/१०१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६२ आश्वलायनगृह्यसूत्रभाष्यम् स्यादिति । किं प्रयोजनम् । अवभृतधर्माः कथं स्युरिति । के पुनस्ते धर्माः । कालः अभ्युक्षणमित्येवमादयः । कः पुनरवभृथकालः । ऊर्ध्वं सर्वप्राय- श्चित्तेभ्यः प्राक् संस्थाजपात् । अथ पुनरत्न सर्वप्रायश्चित्तानि भवन्तीति । भवन्तीत्युच्यते । अथ कस्य सर्वप्रायश्चित्तानि भवन्ति । कर्तुः । नेत्युच्यते । ब्रह्मणः । किमेतावदेव । नेत्युच्यते । निरसनोपवेशने ब्रह्मजप: सर्वप्राय- श्चित्तानि संस्थाजप इतीमानि पञ्च कर्माणि ब्रह्मणो भवन्तीति । सत्यां प्रवृत्तौ । पाकयज्ञाधिकारे पाकयज्ञग्रहणं किमर्थम् । न कर्तव्यम् । कर्तव्यं सर्वपाकयज्ञाधिकारार्थम् ।। २७ ।। एतत् तन्त्रम् ॥ २८ ॥ एतत् तन्वं सर्वपाकयज्ञानां भवतीत्यर्थः । अथ तन्त्रग्रहणेन किं गृह्यत इति चेदुपवासादिविधानं सर्वं प्राप्नोतीति चेदुपवासो न भविष्यति । कस्मात् । तस्येति नियमितत्वात् । एवं तहि इध्माहिषोश्च संनहनमपि न पुनः प्राप्नोति । तस्येत्यधिकृतत्वात् । नानुवर्तिष्यतेऽधिकारः । यद्य- धिकारो नानुवर्तते, एवं तहि देवता अपि सर्वत्र प्राप्नुवन्ति । नेत्युच्यते । अननुवर्तमानेऽप्यधिकारे देवता अन्यत्र न भविष्यन्ति । कथम् । तन्त्रग्रहण - सामर्थ्यात् । प्रत्यक्षविधानाच्च देवतानामन्यव । तद्यथा पौर्णमास्यव्य- पदेशे सति न देवता भवन्ति । एवमिहापि ।। २८ ।। हविरुच्छिष्टं दक्षिणा ॥ २६ ॥ यद्भुतस्य शिष्टं तद्धविरुच्छिष्टं तद्दक्षिणादाने भवति । दक्षिणा- दानान्मन्यामहेऽन्यः कर्तेति, स्वयंकर्तृकत्वे सति दक्षिणादानं नोपपद्यते । अथ किं सर्वेषु पाकयज्ञेषु हविरुच्छिष्टं दक्षिणा भवति । नेत्युच्यते । दक्षिणादानं सर्वत्र न प्राप्नोति । कस्मात् । तन्त्रव्यपदेशे कृते अथ दक्षिणा विहिता । यदि दक्षिणादानमभविष्यत्, विधाय दक्षिणादानं