प्रथमोऽध्यायः ६१ अनेन मन्त्रेण स्विष्टकृद्धोतव्यः --
यदस्य कर्मणोऽत्यरीरिचं यद्वा न्यूनमिहाकरम् । अग्नि- ष्टत् स्विष्टकृद् विद्वान् त्सर्वं स्विष्टं सुहुतं करोतु मे । अग्नये स्विष्टकृते सुहुतहुते सर्वप्रायश्चित्ताहुतीनां कामानां समर्धयिते सर्वान् नः कामान् त्समर्धय स्वाहा' इति ॥ २४ ॥ tra gaffe प्रत्यभिघारयति । [स्विष्टकृतं द्विरभिघा- रयति ] ] ।। २५ ।। अत्र स्विष्टकृति हवींषि न प्रत्यभिघारयति । अनग्रहणमपार्थकम् । कस्मात् । अधिकृतत्वात् । नेत्युच्यते । न हवींषि प्रत्यभिघारयती- त्युच्यमाने सर्वत्र प्रतिषेधः स्यात् प्रत्यभिधारणस्य । तस्मादत्रग्रहणं क्रियते ।। २५ ।। बर्हिषि पूर्णपात्रं निनयेत् ॥ २६ ॥ पूर्णपात्रमपां पूर्णं पात्रं बर्हिषि निनयेत् निषिञ्चेदित्यर्थः । एतत् पूर्णपात्रं प्रागेव पूरितं भवति । कथं गम्यते । तद्भूतोपदेशात् ।। २६ ।। एषोऽवभृथः पाकयज्ञानाम् ॥ २७ ॥ यदिदं पूर्णपात्रनिनयनमवभृथः पाकयज्ञानां भवति । किं पुनः कारणं पूर्णपावनिनयनस्य अवभृथत्वं विधीयते । अवभृथसंस्कृतं यथा 1 This sutra is missing in the MSS., the existence of which is implied in the bhāsya on the previous sūtra; cf. द्विरभिघारणं 2 A, C, D omit पाक. करिष्यते ।